SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ६४ आचार्यश्रीहेमचन्द्रविरचित [भूवादिगणे ४९९ तूष तुष्टौ । तूषति । तुतूष । तूषिता । तूषितम् । क्त सेट्त्वात् तूषा । तुषं हृषंच तुष्टौ तुप्यति ॥ ५०० पूष वृद्धौ । पूषति । पुपूष । पूषिता । क्ते पूषितः । उणादौ "उक्षि-तक्षि-" (उ० ९००) इति अनि पूषा ।। 5 ५०१ लुप ५०२ मृष स्तये । लोषति । लुलोष । लोषिता । "नाम्युपान्त्य-" ५।१।५४। इति के लुषः॥ मूष । मूषति । मुमूष । मूषिता । “नाम्युपान्त्य-" ५।११५४। इति के मूषः, मूषा तैजसावर्तनी, गौरादित्वाद् ड्यां मूषी । णके मूषकः ॥ ५०३ पूष प्रसवे । “षः सो-' २।३।९८। इति षस्य सत्वे सूषति । षोपदेशत्वात् षत्वे सुषूष । येषां तु सोपदेशस्तन्मते षत्वाभावे सुसूष । सूषिता। “नाम्युपान्त्य-" ५।१।५४। इति के सूषः, 10गौरादित्वाद् ड्यां सूषी । तालव्यादिरयमिति चारकाः, शूषा शाकम् । ५०४ ऊप रुजायाम्। ऊषति । “गुरुनाम्यादे:-" ३।४।४८। इत्यामादेशे ऊषाञ्चकार । “नाम्युपान्त्य-" ५।१।५४। इति के ऊषः । ऊषितुम् । अनटि ऊषणं मरिचम् , त्र्यूषणं त्रिकटुकम् । मनि उष्मा । ऊपरं क्षेत्रमिति तु ऊषाद् "रोऽश्मादेः" ६।२।७९। इति चातुरर्थिके रे, ऊषरं जलमिति तु "मध्वादिभ्यो-" ७।२।२६। इति मत्वर्थीये रे सिद्धम् ॥ 16 ५०५ ईष उञ्छे । उच्छम्-उच्चयनम् । ईषति । "गुरुनाम्यादे:-" ३।४।४८। इत्यामादेशे ईषा चकार । ईषिता । क्ते सेट्त्वात् "क्तेटो-" ५।३।१०६। इति अः, ईषा व्रणगवेषणी मञ्चकाद्यवयवश्च । उणादौ "ऋच्य॒जि-" (उ० ४८) इति ईके ईषीका तृणशलाका । इपीकेति तु इषत् इच्छायाम् इत्यस्य ॥ ५०६ कृषं विलेखने। विलेखनम्-हलोत्कर्षणम् । कर्षति । चकर्ष। अनुस्वारेत्त्वाद् नेट क्रष्टा । 20 स्पृश-मृश-" ३।४।५४। इति वा सिचि अकाीत् , “स्पृशादि-" ४।४।११२। इति वा अकारागमे अक्राक्षीत् , पक्षेऽनिट्त्वात् "ह-शिटो-" ३।४।५५। इति सकि अकृक्षत् । णौ डे "ऋहवर्णस्य" ४।२।३७।इति वा ऋदादेशे अचीकृषत् । अचकर्षत् । “नन्द्यादिभ्यो-"५।१।५२। इति अने सङ्कर्षणो हली; अन्यत्र "नाम्युपान्त्य-" ५११५४। इति के सङ्कृषः । “व्यञ्जनाद्-"५।३।१३२/घञि आकर्षो द्यूतफलहका । “उपपीड-" ५।४।७५॥ इति णमि पटोपकर्ष धावति, प्राष्ट्रोपकर्ष धानाः खादति, 25"तृतीयोक्तं वा"३।११५०। इति वा तत्पुरुषः, पक्षे पटे पटेन वोपकर्ष धावति, प्राष्ट्र प्राष्ट्रेण वोपकर्ष धानाः खादति । उणादौ "कृषेर्गुण-वृद्धी च वा” (उ० ३१) इति अके कर्षकः कार्षकः कृषकश्च कुटुम्बी । “पा-पुलि-" (उ० ४१) इति किति इके कृषिकः पामरः । “घृ-वी-हा-" (उ० १८३) इति किति णे कृष्णः । "नाम्युपान्त्य-" (उ० ६०९) इति कित् इः, कृषिः । “कृषेश्च चादेः" १ जलमिति सुष्टु ॥ २ क्षेत्रमिति शोभनम् , "मभ्वादि-" ॥२।२६। सूत्रे तथैव दर्शनात् ॥३ "समः ऋन्दि-कृषि-षिभ्यः संज्ञायामेव" इति वचनात् संज्ञायामेवायं प्रयोगः ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy