________________
परस्मैधातवः ४९०-४९८] स्वोपझं धातुपारायणम् । र्णिगि कर्मत्वम् । "ऋदुपान्त्या-'" ५॥१॥४१॥ इति क्यपि दृश्यम् । “प्रा-ध्मा-" ५।१।५८। इति शे पश्यः, उत्पश्यः। “लिहादि-" ५।१।५०। अचि दर्शः। “कर्मणो-" ५।३।१४। अणि देवदर्शः। "असूर्योग्रा-" ५।१।१२६। इति खशि असूर्यम्पश्या राजदाराः, उग्रम्पश्यो राजा । “त्यदाद्यन्य-" ५।१।१५२॥ इति टक्-सक्-क्किप्सु "अन्य-त्यदादे:-" ३।२।१५२॥ इत्यात्वे च तादृशः, तादृशी, तादृक्षः, तादृक् । “दृग्-दृश-दृक्षे” ३।२।१५१। इति समानस्य सत्वे सदृक्, समशः, सदृक्षः । “दृशः । कनिप्" ५।१।१६६। मेरुदृश्वा; स्त्रियां "णखराघोषा-" २।४।४। इति ड्याम् नस्य रत्वे च तत्त्वदृश्वरी। “शासू-युधि-" ५।३।१४१। इत्यने सुदर्शनः । “विद्-दृग्भ्यः कास्न्यें णम्" ५।४।५४। कन्यादर्श वरयति । पशुरिति तु स्पैशेः "स्पशि-प्रस्जेः स्लुक् च” (उ०७३१) इति उप्रत्यये रूपम् ॥
४९६ दंशं दशने । दशनं दन्तकर्म । “दंश-सञ्जः-" ४।२।४९। इति नलुकि दशति । क्ये दश्यते। ददंश । संयोगान्तत्वाद् “इन्ध्यसंयोगा-" ४।३।२.१॥ इति परोक्षायाः कित्त्वाभावे ददंशतः ददंशुः। 10 अनुस्वारेत्त्वाद् नेट्, दंष्टा दंष्टुम् । “व्यञ्जनानाम्-" ४।३।४५। इति वृद्धौ अदाङ्क्षीत् । “ग-लुप-" ३।४।१२। इति यङि गर्हितं दशति दन्दश्यते, यङ्लुपि दन्दशीति, सूत्रे कृतनलोपस्य निर्देशाद् अत्र नो लुक् । “यजि-जपि-"५।२।१७। इति उके दन्दशूकः । “कर्मणो-" ५।३।१४। अणि दृषं-- मूषिक दशति वृषदंशो बिडालः । “दशेस्त्रः" ५।२।९०। दंष्ट्रो । अचि दंशः, दशी । घनि उपदंशः। "दशना-ऽवोधोद्म-" ४।२।५४। इति निपातनाद् अनटि दशनम् , दशनो दन्तः । “दशेस्तृतीयया-" 15 ५/४७३। इति णमि मूलकेनोपदंशं मूलकोपदंशं भुङ्क्ते, अत्र "तृतीयोक्तं वा" ३।१।५०। इति वा तत्पुरुषः । उणादौ "लू-पू-यु-" (उ०९०१) इति किति अनि दश घटाः ॥
अथ षान्ता एकचत्वारिंशत् कृषवर्जाः सेटश्च४९७ घुष शन्दे । घोषति । जुघोष । ऋदित्त्वाद् वाऽङि अघुषत् , पक्षे अघोषीत् । “घुषेरविशब्दे" ४।४।६८। इति क्तयोर्नेट् , घुष्टा रज्जुः; विशब्दने त्विटि अवघुषितं वाक्यमाह। सम्पूर्वात् 20 "श्वस-जप-" ४।४।७५। इति वेटि सङ्घष्टा सङ्घषिता रज्जुः, सङ्घष्टं सघुषितं वाक्यम् । घुषण विशब्दने घोषयति । आः क्रन्दे आघोषयति । उणादौ "हृषि-पुषि-" (उ० ७९७) इति इलो घोषयिनुः शब्दः ॥
४९८ चूष पाने । चूषति । चुचूष । चूषिता । ते निचूषितम् । चूषित्वा ।।
१ वामनस्तु उपसर्गपूर्वकात् इच्छति, तथा च तद्वचः-उपसर्ग इति केचिच्चानुवर्तयन्ति इति॥ २ सूर्यमपि न पश्यन्ति इति अर्यम्पश्याः; गुप्तिपरं चैतत् , एवं नाम गुप्ता यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्ति, अत्र दृशिना सम्बद्धस्य ननः सूर्येण सहासामर्थ्यपि वाक्यार्थप्रतिपादकत्वात् समासः ॥ ३ यां यां कन्यां पश्यति तां तां सर्वा वरयति इत्यर्थः ॥ ४ स्पशि बाधन-प्रथनयोश्च चाद् गतो, सौत्रोऽयम् ॥ ५ दशत्यनया इति दंष्ट्रा ।। ६ विशब्दनं विशब्दः नाना शब्दनं प्रतिज्ञानं च । "विशब्दनं प्रतिज्ञानम् । तच शब्देन स्वाभिप्रायप्रकाशनम् इति न्यासे"माध• धातु० पृ० ११९ धातुअं० ६४३ । ७ सम्बद्धावयवा इत्यर्थः ॥ ८ नानाशन्दितं प्रतिज्ञातं वा वाक्यं ब्रत इत्यर्थः ॥ ९ भापूर्वको घुषण कन्दे इत्यर्थः ॥