________________
परस्मैधातवः ४४३-४६५] स्वोपटं धातुपारायणम् ।
अथ वान्ताः सप्तत्रिंशत् सेटश्चचर्व । चर्वति । चचर्व । चर्विता। ते चर्वितः । उणादौ "मवाक-" (उ० ३७) इति निपातनाद् आके चार्वाकः । “बहुलमेतन्निदर्शनम्" इति चुरादित्वे चर्वयति ॥
४५४ पूर्व ४५५ पर्व ४५६ मत्र पूरणे । पूर्वति । पुपूर्व । पूर्विता । अचि पूर्वः ॥ पर्व । पर्वति । पर्व । पर्विता। विचि सुपः सुपरौ सुपरः, “य्वोः प्वव्यञ्जने-' ४।४।१२१। इति । वलोपः । उणादौ “ह-पृ-भृ-" (उ० २०७) इति अते पर्वतः ॥ मर्व । मर्वति। ममत्र । मर्विता ॥
४५७ मर्व ४५८ धवु ४५९ शव गतौ । मर्वति मम । मर्विता ॥ धवु । उदित्त्वाद् ने धन्वति । धन्विष्यति । उणादौ "उक्षि-तक्षि-" (उ० ९००) इति अनि धन्वा ॥ "शवतिर्गतिकर्मा काम्बोजेषु भाष्यते । विकार एवैनमार्या आहुः" [ महाभा० आ० १,५] । शवति । 10 अचि शकः, शवम् , सुष्ठु शवतीति सुशवः, स्त्रियां गौरादित्वाद् ड्याम् सुशवी । किपि “अनुनासिके च-" ४।१।१०८। इति वस्योट्, ततः “ऊटा" १।२।१३। इत्यस्यौत्वे शौः । शविष्यति ॥
४६० कर्व ४६१ खर्व ४६२ गर्व दपै । कर्वति, खर्वति, गर्वति, चकर्व, चखर्व, जगर्व । अचि पनि वा कर्वः, खर्वः, गर्वः ॥
४६३ ष्ठिव ४६४ क्षिवू निरसने । “षः सो-" २।३।९८। इत्यत्र ष्ठिवो वर्जनात् षस्य सत्वा- 15 भावे “ष्ठिवू-क्लम्वा-" ४।२।११०। इति दीर्घ च ष्ठीवति । "तिर्वा ष्ठिवः” ४।१।४३। इति पूर्वस्य वा तित्वे तिष्ठेव टिष्ठेव । यङि तेष्ठीव्यते, टेष्ठीयते । ठेविता। ऊदित्त्वात् क्त्वि वेट् , प्ठ्यूत्वा ठेवित्वा। - "इवृध-" ४।४।४७। इति सनि वेट, तुष्ठ्यूषति टुष्ठ्यूषति; पक्षे तिष्ठेविषति टिष्ठेविषति । वेट्त्वात् क्तयोर्नेट, ष्ठ्यूतः, ष्ठ्यूतवान् । मनि "अनुनासिके च-” ४।१।१०८। इत्यूट्त्वे सुष्ठयोमा । वनि सुष्ठयोवा । किपि सुप्ठ्यूः । विचि सुष्ठेः । “ष्ठिव्-सिवोऽनटि वा” ४।२।११२। इति वा दीर्घे ठीव- 20 नम् , ठेवनम् ॥ क्षिवू । क्षेवति । चिक्षेव । क्षेविता । ऊदित्त्वात् क्ष्यूत्वा, क्षेवित्वा । क्तयोः क्ष्यूतः क्ष्यूतवान् । क्षीवमप्येके पठन्ति क्षीवति । णौ अचिक्षीवम् । ते क्षीवितः । ष्ठिव क्षिवच् निरसने ठीव्यति । क्षीव्यति ॥
४६५ जीव प्राणधारणे । जीवति । जिजीव । जीविता । णौ डे "भाज-भास-" ४।२।३६॥
१ महाभाष्ये तु-"कम्बोजेष्वेव भाषितो भवति विकार एनमार्या भाषन्ते शव इति" इति पाठभेदः । २ "ष्ठिवू-क्लम्वाचमः" ४।२।११०। इत्यत्र सूत्रे 'ष्टिवू इति ऊकारनिर्देशात् यलुपि न भवति' इति कलिकालसर्वज्ञश्रीहेमचन्द्रसरिपादाः । श्रीगुणरक्षसरयस्तु "ष्ठिवू-क्लम्वा-" ४।२।११। इत्यत्र अत्यादावधिकाराद् यलुपि त्यादौ न दीर्घः, तेष्टेति, अत्र “य्वोः-" ॥४१२१॥ इति ब्लुक्, तेष्टिवीति तेष्ठपुतः तेठिवति, एवं टेष्ठेतीत्याद्यपि" इति आहुः-क्रियारत्नस० पृ. ७८ धातुअं० १२६। सायणोऽपि 'ऊभाविना वकारान्तानां यङ्लुङ् नास्ति' इत्याह-माध० धातु. पृ० १०८ धातुअं०५५३ । ३ अत्र “उपान्त्ये" ४॥३॥३४॥ इति सनः कित्वे ऊटि द्वित्वे "
तिर्वा ष्ठिव" ॥१४३॥ इत्यत्र तेरिकारस्योच्चारणार्थत्वात् वा ठस्य तत्वे वरूपम्। ४क्षीवूम प्र. मु०॥ ५ पाणिनीयाः-माध. धातु. पृ०१०९ धातुअं० ५६०।६ प्राणलक्षणस्य कर्मणो भात्वर्थेनोपसमहणादकमकोऽयम् ॥