________________
आचार्यश्रीहेमचन्द्रविरचित [भूषादिगणे तिलति । तिलण् स्नेहने तेलयति ॥ तिल्ल। तिल्लति । तितिल्ल । तिल्लिता ॥ पल्ल। पल्लति । पपल्ल । पल्लिष्यति । उणादौ “पदि-पठि–' (उ०६०७) इति इः, पल्लिः ॥ वेल्ल। वेल्लति । विवेल्ल । वेल्लिता । ते वेल्लितम् । णौ के अविवेल्लत् ।।
४४३ वेल. ४४४ चेल. ४४५ केल ४४६ क्वेल. ४४७ खेल. ४४८ स्खल चलने। 5 वेलति । विवेल । वेलिता । ऋदित्त्वात् अविवेलत् । अचि वेला । वेल कालण उपदेशे वेलयति ॥
चेल । चेलति । चिचेल। चेलिता। ऋदित्त्वात् अचिचेलत् , अचिचेलम् । चिलत् वसने चिलति। . पनि चेलम् ॥ केल। केलति । चिकेल । केलिता। ऋदित्त्वात् अचिकेलत् । क्ते केलितम् । किलत् श्वैत्य-क्रीडनयोः किलति । उणादौ "किलि-पिलि ” (उ० ६०८) इति इ., केलिः ।
कील बन्धे इत्यस्य तु कीलति, कीलितम् , कीलिः ॥ क्वेल । केलति । चिकेल । केलि10 ता । ऋदित्त्वात् अचिक्केलत् ॥ खेल। खेलति। चिखेल । खेलिता । ऋदित्त्वात् अचिखेलत् ।
अचि खेलः, खेला खुरलिः, पृषोदरादित्वाद् इस्वे खिलम् ॥ स्खल । स्खलति । चस्खाल । स्खलिता, अचि स्खलः। “चाल-शब्दार्थाद्-" ५।२।४३। इत्यने स्खलनशीलः स्खलनः। क्ते स्खलितम् ॥
४४९ खल सञ्चये च । चकारात् चलने । खलति । चखाल । खलिता । “गोचर-" ५।३।१३१॥ 15 इति निपातनाद् घे खल्यन्ते-सञ्चीयन्ते यशांसि धान्यानि वा यत्रेति खलः खलं रणाजिरम् धान्यपवनस्थानं च, खलो दुर्जनः । अचि खलति-सचिनोति पापम् चलति वा गुणेभ्य इति खलो नीचः । उणादौ "खलि-हिंसिभ्यामीनः" (उ० २८६) खलीनम् । “लटि-खटि-" (उ० ५०५) इति वे खल्वं निम्नम् , खल्वा दृतिः। “कपाट-विराट-" (उ० १४८) इति निपातनात् खल्वाटः । “ह-पृ-भृ-"
(उ० २०७) इति अते खलतः खल्वाटः। “पदि-पठि-" (उ० ६०७) इति इः, खलिः पिण्याकः । 20 "खल्यमि-"(उ० ६५३) इति अतौ खलतिः ॥
४५० श्चल ४५१ श्वल आशुगतौ । तालव्यादी । श्वलति । “वद-व्रज-" ४।३।४८। इति वृद्धौ अश्वालीत् ॥ श्वल्ल। श्वल्लति । अश्वल्लीत् । शलिमप्यत्र एके पठन्ति, स ज्वलादिपाठेनैव गतार्थ इति नेहाधीतः ॥ .
४५२ गल ४५३ चर्व अदने । गलति । जगाल । गलिष्यति । अचि गलः कण्ठः। सवणेs25 प्ययमनेकार्थत्वात् , गलत्युदकं कुण्डिकायाः । उणादौ "कलि-गलेरस्योच" (उ० ३१५) इति फे
गुल्फः । “बहुलमेतन्निदर्शनम् " इति गलिण सावणे गालयते उद्गालयते ॥
१कीलितम स्थाने कीलनम् सं सं २ तपा। मुद्रिते तु उभयमपि ॥ २ "खल्यन्ते-संचीयन्ते धान्यानि अत्र खलं त्रिलिगः, “गोचर-सश्चर-" ५।३।१३। इति निपातनाद् घः" इति स्वोपज्ञाभिधानचिन्तामणिटीकायाम् । कां. ४ श्लो० ३५॥