________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
सम्मार्जनीं च कर्पासं सणकं मर्पकङ्कतौ । गृहीता सम्मुखोऽभ्येति तद्गृहं पूर्यते धनैः ॥ ५६ ॥ जम्भां दत्वा नभः प्रेक्ष्य मुश्चत्यणि रौति च । स्थाने तस्मिमिति ज्ञेयं विद्युत्पातो भविष्यति ॥ ५७ ॥ गच्छता दक्षिणः श्वानो वामः प्रविशतां भवेत् ।। कर्षकाणां स आख्याति कृषिकर्म विधत्त मा ॥ ५८ ॥ विवाहार्थे शुभः शुन्या विधत्ते प्रश्रवं यदि । ऊर्ध्व विवाहिता कन्या सुतसौख्यार्थभाग्भवेत् ॥ ५६ ।। गलं वक्त्रं शिरःकर्णी नेत्रे दक्षिणपाणिना ।। स्पृशन्नूछ विवाहार्थे श्वा दत्ते चिन्तिताधिकम् ॥६० ॥ वामांहिणा वामभागं वक्त्रं घर्षति चावनौ । कण्डूयते कुमायूढा सा रण्डा जायतेऽचिरात् ॥६१॥ हृष्टास्यं भषणं प्रेक्ष्य क्रीडन्तं कान्तया सह । विवाह्यते कुमारी या सा सौख्यं लभते तराम् ॥ २॥ अत्यातुरो व्यात्तवक्त्रः सम्मुखोऽभ्येति कुक्कुरः । शकुनेनानेन कन्यो-ढा स्याद् दुःखस्य भाजनम् ॥ ६३ ॥ पूर्वाह्न शकुना ये तु ते दिवा फलदायिनः । अपराह्न तु ते रात्रौ शकुनज्ञा वदन्त्यदः ॥६४ ॥ शीर्ष धुनानो यद्येति भषणः पथि वेगवान् । प्रवासिनोऽग्रे गतस्य कार्यसिद्धिर्भवेन हि ॥६५॥
For Private and Personal Use Only