________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्सीर्षके पदं कृत्वा यदि शेते शुनिस्तदा । आगच्छद्वल्लभं वक्ति तद्वेश्मन्यचिरादपि ॥४६ ।। गच्छतो निग्रहे शत्रो-त्तिास्योऽभिमुखश्च सः ।। यद्यरिः सम्मुखोऽभ्येती-ति ज्ञेयं गच्छता तदा ।। ४७ ।। चलता रोगिणो गेहे यदि श्वायाति दक्षिणः । स रोगी मुच्यते रोगा-हुसौख्यं समश्नुते ॥४८ ।। नष्टस्यान्वेषणे यातां दक्षिणो भषणो व्रजेत् । गृहे स्थितिनां तल्लोत्रं समेति निजवेश्मनि ॥४६ | पान्थस्य गच्छतो ग्राम पुंश्चिह्न भषणो निजम् । लिहन्नुपपत्तिं वक्ति भागे वामे च दक्षिणे ॥५०॥ मृशलोखले सूर्प सणं पटुं च कुक्कुरः । दत्वोच्छीर्षे स्वपिति च जारमाख्याति तद्गृहे ॥ ५१ ।। नीरतीर्थे तटस्थश्चे-दङ्ग कम्पयते शुनिः । तत्र देशे धनां मेघ--वृष्टिं वदति भाविनीम् ॥५२॥ चन्द्राकौं प्रेक्ष्य वर्षासु रौत्यूचंवदनो यदि । ससरात्राद्वारि पतिष्यति वदत्यदः ॥५३॥ प्रसार्य चक्रमाकाशे जुम्भी कुर्वनिरीक्ष्यते । जलपातो भवत्याशु प्रचुरश्चेष्टयानया ॥५४॥ रटन् भ्राम्यंश्च रथ्यासु सहर्षेः प्रेक्ष्य भास्करम् । राजलोकाद्गृह्यतेऽर्थो विधृत्येति विचार्यताम् ॥ ५५ ॥
For Private and Personal Use Only