________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भषणः पङ्कलिप्ताङ्गः सम्मुखोऽभ्येति चेत्पथि । प्रवासिनो रुज प्राण-संशयं विदधात्यलम् ॥६६॥ विष्टां कृत्वा पुनर्भूमौ शुनको यदि घर्षति । ग्रामान्तरात्स आयाति पथिकः पादवर्जितः ॥६७ ॥ ये यान्ति भषणं प्रेक्ष्य लुठन्तं भूमिमण्डले । धनमानोज्झितां भिक्षा ते भ्राम्यन्ति गृहे गृहे ॥६॥ प्रदक्षिणेन करेण श्वा पाणि घर्षति वामकम् । एकच्छत्रं तदा राज्यं पथिकः समवाप्नुयात् ॥६६॥ गच्छता कन्यकार्थे तु श्वानो वामः प्रशस्यते । अकुलीनापि चेढा कन्या सा जायते सती ॥७० ॥ हलप्रवाहं प्रथमं कुर्वतां याति दक्षिणः । आगतापि कृषिर्गे हे कर्ष कैर्नापि भुज्यते ॥ ७१ ।। यदि वा निजपश्चिह्न पाणिग्रहणकर्मणि । लेढि गौरी समाप्यढा कलङ्कयति सा कुलम् ॥७२॥ दक्षिणेन करेण श्वा शीर्ष घर्षन् वदत्यदः । भाण्डागारगजोपेता भूरायत्ता प्रवासिनः ॥७३॥
इत्याचार्यश्रीमाणिक्यसूरिविरचिते शाकुनसारोद्धारे श्वानचेष्टाप्रकरणं नवमं समाप्तं ॥ श्रीरस्तु ॥६॥
For Private and Personal Use Only