________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
वर्षेणापि न यद्भग्नं मन्यते तत्क्षणादपि । एवं विनष्टो जायेत निष्पन्नोऽर्थो विनश्यति ॥३५॥ कार्याय गच्छतां यस्मै पश्चारे शकुनो भवेत् । तत्कार्य सर्वथा भग्नं देवैरपि न मिद्धयति ।।३६।। सर्वथा न विनश्येत् ध्र वे कार्ये फलं ननु । पञ्चारके तु शकुने सर्वथा भग्नमेव तत् ॥३७॥ ब्रह्ममध्यन्दिने दीप्तं तच्छकुनोऽपि तत्फलः । रसातलं तु सन्ध्यायां वदन्ति केचिदप्यदः ॥३८॥ शुभोऽशुभो वा शून्याङ्गे पटिष्टोऽपि वृथा भवेत् । अपटिष्टोऽपि जीवाङ्गे शुभाशुभविधौ पटुः ॥६३।। अल्पेऽल्पं महति प्राज्यं शकुने प्राप्यते फलम् । आदौ मध्येऽवसाने च कार्याणां स विलोक्यते ।।४०॥ निविश्या दक्षिणे भागे संमुखाः शकुनाः शुभाः। विपरीताश्च वामाने प्रवासे फलकाक्षिभिः ॥४१।। शुभः प्रागशुभः पश्चा-दशुभः प्राक् ततः शुभः । पाश्चात्यः फलदोऽवश्यं शकुनः सर्वकर्मसु ॥४२॥ नार्याख्या दक्षिणाः श्रेष्ठाः शिवादुर्गाविवर्जिताः। नराह्वयाः शुभा वामा वृद्धतित्तिरमन्तरा ॥४३॥ ग्रामे वन्यो भयं दत्ते ग्राम्यो वन्ये त्वनर्थदः। रात्रिश्चरो दिवा वन्ध्यो-ऽहश्चरो विफलो निशि । ४४॥
For Private and Personal Use Only