________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हीनं हीनतरं कार्य जायते न हि भज्यते । खरके खरतरं हि स्यात् स्वस्थानां भयदानतः ॥२५॥ उत्खकिकानां खरकः स्थानदो वाऽहरागमे। अप्रयाते गृहं चौरे लोप्नं मार्गेऽपि लभ्यते ॥२६॥ पश्चिमायां विलम्बेन सर्वकार्येषु सिद्धयः । वर्षार्थ शकुनस्तस्यां जागत्यां वृष्टिकारणम् ।।२७।। दक्षिणा पश्चिमा शान्ता सदा दीप्ता तु पावकी । ईशानी शान्तदीप्ता तु मारवे शाकुने मता ॥२८॥ तयोर्दीप्तोऽपि नो दुष्टः सर्वथा किन्तु मध्यमः । दीप्तदीप्सतसे वह्नौ शान्तदीप्तस्तु शाम्भवे ॥२६॥ विद्योत्सवगृहारम्भ-प्रपादेवगृहादिषु । . व्रतोधापनदीक्षादौ शान्त धम्र्येषु कर्मसु ॥३०॥ लाभे सन्देहदोलास्थे परचकागमे भये । युद्धे बन्धे नवे रोगे दीप्तमेवावलोकयेत् ॥३१॥ पोतारोहो भूपसेवा कृषिर्देशान्तरे गतिः । इत्यादिमिश्रकार्याणि मिश्रे सिद्धान्त निश्चितम् ॥३२॥ ध्र वस्य खरकस्यापि मध्ये स्यात्पश्चचारकः । प्रभाते शकुने जाते सन्ध्यार्वाग्लभ्यते फलम् ॥३३॥ सन्ध्यायां शकुने जाते आप्रभातात्फलं भवेत् । वर्षणापि न यत्कार्य सिद्धं तद्दिनसिद्धिदम् ॥३४॥
For Private and Personal Use Only