________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१
Acharya Shri Kailassagarsuri Gyanmandir
शान्तं धर्मादिकृत्यं स्यात् परचक्रादिभीतिजम् । दीप्तं वाणिज्यकर्मादि मिश्रं पुनरुदाहृतम् ॥ ७ ॥ ईशानेन्द्री हुताशाख्या दग्धज्वलितधूपिताः । एवं क्रमेण विज्ञेया दिशो दीप्ता मनीषिभिः ॥ ८ ॥ पूर्वाग्नेयी कालकाष्टा वह्निदक्षिणनैऋताः । याम्या नैऋत्यवारुण्यः क्रव्याद्वरुणवायवः ॥ ६॥ वारुणवायु कौबेरी - वायूदीची शिवालयाः 1 कौबेरीशानपूर्वाशा यामैकैकं खेः पुरः ॥ १० ॥ एवं दग्धा दिशो ज्ञेयाः शेषाः शान्ताः शुभे शुभाः । विशेषेण निगद्यन्ते तद्भेदाः शकुनार्णवात् ॥ ११ ॥
|| त्रिभिर्विशेषकं ।
दग्धा प्रज्वलिता धूम्रा मिश्रा नारी सकर्दमाः । भस्माङ्गारवती ज्ञेया दिगीशान्यादितः क्रमात् ॥१२॥ रविः श्रर्यात यामाशां तदा तत्पूर्वतो दिशः । दग्धाद्या रात्रपाश्चात्य - यामार्धाद्गणयेच्च ताः ॥ १३ ॥ उदयास्तो स्थिरं मूल-मस्थिरं सूर्य संक्रमात् । निवासो दक्षिणानाम - प्रमाणं नैऋतं विदुः || १४ || समीरणाख्यं खरक उत्तरा ध्रुवमुच्यते । शेषाः प्रसिद्धनामान - श्राग्नेयीशानपश्चिमाः ॥ १५ ॥ युग्मं ।
For Private and Personal Use Only