________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अहम् ॥ हालारदेशोद्धारक पूज्याचार्यदेव श्रीविजयामृतसरिभ्यो नमः पूज्याचार्यदेव श्री माणिक्यसूरिवरविरचितः
॥ श्रीशाकुनसारोद्धारः॥
॥ अथ प्रथमं दिक्स्थानप्रकरणम् ॥
उपास्महे परं ज्योति-धोतितान्तरविग्रहम् । यदुद्योताजगत्कृत्स्नं प्रत्यक्षमिव वीक्ष्यते ॥१॥ यस्याः प्रसादादन्योऽपि नीरक्षीरविवेकवान् । हंसोन्नतां तमोहंत्री स्तुवे भागवती गिरम् ॥२॥ बाञ्छितानां प्रदानत्वाद्गुरून् कल्पतरूनिव । शाकुनाख्यं महाज्ञानं किश्चिद्वन्मि समासतः ।।३।। केषांचिद्दर्शनं श्रेष्ठं गमनं कोतनं स्वरः । शकुनानां तथा चेष्टा-भेदा एवमनेकधा ।। ४ ॥ त्रिविधः शकुनः प्रोक्तः क्षेत्रिको जाधिकस्तथा। आकस्मिकस्तृतीयश्च विधा शांतादिभेदतः ॥ ५ ॥ शांते शान्तं भये दीप्तं मित्रं मिश्रेषु कर्मसु । शकुनं फलदं तच व्यत्यये व्यत्ययो भवेत् ।। ६ ॥
For Private and Personal Use Only