________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ शुभस्वप्नविचारस्तृतीयोद्योतः ।। ये स्वदेहबहिर्भता-स्तेऽत्र स्वप्ना निदर्शिताः। स्वदेहपरदेहाभ्यां दर्श्यन्ते सङ्गताः परे ॥१॥ पूर्व शुभाः प्रदयन्ते-ऽप्यशुभास्तदनन्तरम् ।। स्वप्नानन्तरकतव्यं वक्ष्यामश्च ततः परम् . ॥२॥ गजारोहे प्रभुत्वं स्या--द्धमों गोवृषरोहणे । गवा रोहे महीप्राप्तिः शैलारोहे महोन्नतिः ॥३॥ कुलवृद्धिदुमागेहे प्रासादारोहणे धनम् । प्रभुत्वं तुरगारोहे श्वेतं श्रेष्ठं परे परम् ॥४॥ हंसारोहे महाकीर्तिः सिंहारोहे महावलम् । धनं स्यात्पुरुषारोहे बेडारोहेऽप्यरोगताम् ॥५॥ मन्त्रित्वं वाहनारोहे पद्मारोहे श्रियां ततिः । पाल्यारोहे स्वामिसेवा महिलारोहणे शुभम् ॥६॥ स्वस्य स्वस्यैव हि फलं परस्य परदर्शने । द्रव्यलाभे परं द्रव्यं फललामे सुतोद्गमः ॥७॥ तुरङ्गलामे स्वामित्वं गजलामे च राज्यता । श्रीलामे च महालक्ष्मी-गोलाभे भूमिमता ॥८॥ प्रतापो वह्निलामे तु दीपलामे चिदात्मता। धर्मः स्याद् वृषलाभे तु पक्षिलामे सुभोगता ।।।
For Private and Personal Use Only