________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चंद्रसूर्यादिविस्फोटो महावायुर्महातपः । दुर्वाक्यानि द्विचत्वारिं--शदु स्वप्नाः प्रकीर्तिताः ॥२०॥ दर्शनं स्पर्शनं चैषां प्रवेशारोहसङ्गमाः । आगमः श्रवणं चैव खदेहे विशनं तथा ॥२१॥ देशे ग्रामे स्थितिश्वैषां महाकष्टप्रदायिनी । महारोगमहादुःख--महापापकरा अमी ॥२२॥ स्त्रीणां वैधव्यजनका नृपाणां राज्यभङ्गदाः । देशस्य नाशकर्तागे मुनेर्धर्मक्षयङ्कराः ॥२३॥ अन्येषां पतनायैव देहाद्र वंशात्पदादपि । मृत्यवे कापि जायन्ते प्रध्वंसाय निरन्तरम् ॥२४॥ इति द्वासप्ततिस्वप्ना निजदेहाद्वहिर्गताः । व्याख्यातं फलमेतेषां पूर्वशास्त्रानुसारतः ॥२५॥ नरा विहङ्गास्तियचो वस्तून्यन्यानि यानि च । स्वप्ने शुभानि भद्राय विपरीतानि चान्यथा ॥२६॥
इति रुद्रपल्लीयमच्छे श्रीवर्धमानसूरिकृते स्वप्नप्रदीपे स्वात्मावबोधजस्वप्नाधिकारे द्वासप्त तिमहास्वप्नविचारो द्वितीयोद्योतः समाप्तः ॥ २ ॥
For Private and Personal Use Only