________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एषां देहे प्रवेशस्तु शोकदुःखादिकारकः । स्त्रीणां गर्भसमावेश एतेष्वन्यतमस्य च ||१०|| प्रवेशो जठरे तस्याः पुत्रस्य पदमुत्तमम् । चतुर्दशानामेतेभ्यः स्वप्ने मुखप्रवेशतः ॥११॥ स्त्रीणामर्हचक्रिणोश्च जन्मसारस्य सूचकम् । सप्तानां वासुदेवस्य चतुर्णा सात्विकस्य च ॥१२॥ द्वयोमहानरे द्रस्ये--कस्य स्यान्मण्डलेशितुः । नृणां राज्यप्रदा ज्ञेया अल्पाल्पधनदायकाः ॥१३॥ एते त्रिंशन्महास्वप्ना व्यतिरिक्ताश्च देहतः। शुभाः शुभफलाः श्रेष्ठाः प्राणिनां हर्षदायकाः ||१४|| द्विचत्वारिंशदधुना दुःस्वप्ना देहवर्जिताः । महापापा महाघोरा दुःखदा शोकदा नृणाम् ॥१५॥ गन्धर्वा राक्षसा भूताः पिशाचाश्चापि वुकसाः । महिषा हि प्लवङ्गाश्च कण्टकद्रुनदीगणः ॥१६।। खर्जश्मशानदासेराः खरमार्जारकुक्कुराः । दारिद्र थकूपसङ्गीत-नीचब्राह्मणभूतयः ॥१७॥ अस्थिच्छदितमाकुस्त्री--चर्मरक्ताश्मवामनाः । कलहो विकृता दृष्टि: शोषश्चापि माम्भसाम् ॥१८॥ भूकम्पग्रहरागौ च निर्घातो भङ्ग एव च । पृथिवीमजनं चैव ताराणां पतनं तथा ॥१६॥
For Private and Personal Use Only