________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सिंहरत्नोघगिरयो
पुरीषसमत्स्याश्च
६
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ द्वासप्ततिमहास्वप्न विचारो द्वितीयोद्योतः ॥
धातुप्रकोपजः स्वप्न - चिन्तास्वप्नश्च निष्फलः । व्याख्यानमेतयोर्लोके निष्फलत्वान्न कथ्यते || १ || आत्मावबोधजः स्वप्नः क्रमाद्वयाक्रियतेऽधुना । स्वदेहपर देहादि - चेष्टाभिः सोऽप्यनेकधा ॥२॥ द्वासप्ततिमहास्वप्ना व्यतिरिक्ताश्च देहतः । तेषां त्रिंशच्छुभफलाः शेषा दुष्टफलाः पुनः ॥३॥ अन् बुद्धो हरिः शम्भु ब्रह्मा गुह्यविनायकौ । लक्ष्मीगौरी नृपो हस्ती गौपः शशिभास्करौ ||४||
विमान गेहज्वलनाः
स्रगम्बुधिसरोवराः T ध्वजः पूर्णघटस्तथा ।।५।।
1
कल्पद्रु सफलद्रुमाः
इति त्रिंशच्छुभाः स्वप्ना दृष्टाः सत्फलदायकाः ||६|| सर्वे दृष्टा राज्यकरा ऊना भूरिधनप्रदाः । एकं द्वयं त्रयं चापि दृष्टवंशानुसारतः ॥७॥ राजमान्यधनप्राप्ति - विद्यालाभकरं परम् । एषाञ्चैव करारोहो धनपुत्रादिलाभदः एपामारोहणं चैव स्वस्वराज्यपदप्रदम् 1 एषां स्वदेहे विशनं राज्यभोगप्रदायकम् ॥६॥
||८॥
For Private and Personal Use Only