________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०
द्रविणं मांसलामे तु प्रमोदो मद्यलाभतः । घृतमीनादिलामे तु भवेद् गृहमहोत्सवः ॥१०॥ उपानही पादुकानां छत्रवाहनयोरपि खड्गस्य लाभे निर्देश्यं निश्चयात् स्वजनं नृणाम् ॥ ११ ॥ कुर्कुटीवडवाक्रौञ्ची -- महिषीणां च लाभतः । पक्षिणानां च जायेत स्त्रीलाभो नात्र संशयः ॥ १२ ॥ शस्यलाभे विवाहः स्यात् प्रीतिस्तम्बूललामतः । वस्त्रलाभे च सन्मानं पदं दुग्धस्य लाभतः ॥१३॥ मञ्जिष्ठादिद्रव्यलाभे स्वजनैः प्रीतिरुत्तमा । शृङ्गारचापरादीनां लाभे सिंहासनस्य च ॥ १४ ॥ सौभाग्यमायुरारोग्यं राज्यं चैव विनिर्दिशेत् । सिद्धिः स्यान्मन्त्रलाभे तु धान्य लाभे धनं घनम् ||१५|| महत्त्वं रत्नलाभे तु प्रभुता नरलाभतः । इत्यादिशुभवस्तूनां लाभः सर्वसुखावहः ॥१६॥ क्षीरानभोजने विद्या यशस्तु दधिभोजने । पञ्चगव्याशने कल्यं सर्पिषो भोजने जयः ॥ १७॥ नरमांसाशने लक्ष्मी -- नृपत्वं नृशिरोऽशने । शेषमांसाशने द्रव्य - मामे पक्के सुखं पुनः ॥ १८ ॥ तिलमापखलान् मुक्त्वा शेषान्नस्याशने धनम् । मद्यपाने महालाभो जलपानेऽप्यरोगता ॥१६॥
For Private and Personal Use Only