________________
संगीतरत्नाकरः
देवतागुरुविप्राणां नमस्कारेष्वयं क्रमात् ॥ १८५ ॥ कार्यः शिरोमुखोरस्थो नृभिः स्त्रीभिर्यथेष्टतः ।
इत्यञ्जलिः (१) कपोतोऽसौ करौ यत्र श्लिष्टमूलाग्रपाकौ ॥ १८६ ॥ अस्य कूर्मक इत्यन्यां संज्ञां हस्तविदो विदुः । प्रणामे गुरुसंभाषे विनयाङ्गीकृतौ त्वयम् ॥ १८७ ॥ पाङ्मुखः सशिरःकम्पः स्त्रीकापुरुषयोर्भवेत् ।
इति कपोत: (२) अन्योन्यस्यान्तरैर्यत्रागुल्यो निःसृत्य हस्तयोः ॥ १८८ ।।
अन्तर्वहिश्च दृश्यन्ते कर्कटः सोऽभिधीयते । पताकेति । पताकहस्ततलयोः संयोगात् अञ्जलिः । स च, शिरस्थः देवतानमस्कारे ; मुखस्थः गुरुनमस्कारे ; उरस्थः ब्राह्मणनमस्कारे च नृभिः पुरुषैः क्रमेण कार्यः । स्त्रीभिस्तु स्वेच्छयेति ॥ १८४-, १८५- ॥
इत्यजलि: (१) (क०) संयुतहस्तेषु कपोतलक्षणे-कपोतोऽसौ करौ यत्र श्लिष्टमूलाग्रपार्वकाविति । श्लिष्टमूलाग्रपार्श्वकाविति विशेषकथनात्तलयोर्विश्लिष्टत्वं गम्यते । तेनाञ्जलितोऽस्य वैलक्षण्यं द्रष्टव्यम् ॥ -१८६, १८७- ॥
___ इति कपोत: (२) (सु०) कपोतं लक्षयति-कपोत इति । शिष्टमूलाप्रपार्श्वको ; श्लिष्टं संबद्धं मूलमग्रं पार्श्व ययोः; तथाविधं करद्वयं यत्र, असौ कपोतः । अस्य विनियोगमाह-अस्येति । अस्य; कपोतस्य कूर्मक इत्यन्यां संज्ञां केचिदाहुः । अयं प्राङ्मुखः प्रणामे, गुरुसंभाषणे, विनयाङ्गीकरणे च कार्यः। स एव प्राङ्मुखः सन् यदि सशिरःकम्प: स्यात् , तदा त्रीकापुरुषयोश्च प्रयोज्यः।। १८६, १८७-॥
इति कपोत: (२)
Scanned by Gitarth Ganga Research Institute