________________
सप्तमो नर्तनाध्यायः भ्रमरस्य तलस्थे चेत्कनिष्ठोपकनिष्ठिके ॥ १८१॥ ताम्रचूडस्तदा हस्तो बालाहानेऽथ भर्सने । गीतादितालमाने च शैघ्रयविश्वासनादिषु ॥ १८२ ॥ सशब्दच्युतसंदंशः कार्योऽसौ छोटिकोच्यते । प्रसारितकनिष्ठस्य मुष्टेर्यत्ताम्रचूडताम् ।। १८३ ॥ विनियोगं सहस्रादिसंख्यानिर्देशनेऽस्य च । केऽप्यूचुस्तत्तु निस्शङ्को नैच्छल्लक्ष्येष्वदर्शनात् ॥ १८४ ।।
इति ताम्रचूड: (२४)
इति चतुर्विशतिरसंयुतहस्ताः । अथ संयुतहस्ताः
पताकहस्ततलयोः संश्लोषादञ्जलिर्मतः । लानां गुणनिक्षेपणे, तथा च्छिद्रकरणे च तृतीयः कार्यः । तथा तत्त्वस्य निरूपणे सद्वितीयः, संयुक्तकरणेन कार्यः । एषः; संदशः वामहस्तेन किंचिदप्रविवर्तनात् सरोषभाषणे, अलक्तकादिनि:पेषेऽपि विनियोग इति शाङ्गदेवेन कथितम् ॥ -१७५-१८०- ॥
इति संदंश: (२३) (सु०) ताम्रचूडं लक्षयति-भ्रमरस्येति । भ्रमरस्य ; पूर्वोक्तभ्रमराख्यहस्तकस्य, कनिष्ठोपकनिष्ठिके ; कनिष्ठानामिके द्वे अगुल्यौ करतले यदा भवतः, तदा ताम्रचूडः । तस्य विनियोगमाह-बालेति । बालानामाह्वाने, भर्त्सने, गीतादितालमाने, शीघ्रार्थे, विश्वासने च, असौ ; ताम्रचूड: सशब्दं यथा तथा च्युतसंदशः कार्यः, स च छोटिकेत्युच्यते । मतान्तरमुपन्यस्य दूषयतिप्रसारितेति । प्रसारिता मुक्ता कनिष्ठिका यस्य, तथाविधा मुष्टिरचना ताम्रचूड इति । यद्यपि महाराष्ट्रदेशे, अस्य ताम्रचूडस्य सहस्रादिसंख्यागो निर्देशे प्रयोगे दृश्यते । तथाप्यन्यत्र लक्ष्येष्वदर्शनात् शार्ङ्गदेवो नैच्छत् ॥ -१८१-१८४- ॥
इति ताम्रचूड: (२४)
इति चतुर्विशतिरसंयुतहस्ताः । (सु०) अथ त्रयोदशसंयुतं हस्तकं लक्षयिष्यन् , तेवञ्जलिं लक्षयति
Scanned by Gitarth Ganga Research Institute