SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ५० संगीतरत्नाकरः कार्यौ स्वस्तिक सिंहव्याघ्रादिनखरायुधे । इत्यूर्णनाभ: (२२) अरालाङ्गुष्ठतर्जन्यौ लग्नाग्रे निम्नतां गतः ।। १७५ ।। किंचिचेत्तलमध्यस्थस्तदा संदेश उच्यते । स त्रेधा स्यादग्रजश्च मुखजः पार्श्वजः क्रमात् ।। १७६ ॥ प्राङ्मुखः संमुखः पार्श्वमुख इत्यस्य लक्षणम् । कण्टकोद्धरणे सूक्ष्मकुसुमावचयादिषु ।। १७७ ।। प्रयोक्तव्योऽग्रदशो धिगित्युक्तौ तु रोषतः । वृन्तात्पुष्पोद्घृतौ वर्तिशलाकाञ्जनपूरणे || १७८ || कर्तव्यो मुखसंदंशः संदंशः पार्श्वजः पुनः । गुणनिक्षेपणे मुक्ताफलानां वेधने तथा ।। १७९ ।। निरूपणे च तत्त्वस्य सद्वितीयोऽथ भाषणे । सरोषे वामहस्तेन किंचिदग्रविवर्तनात् ।। १८० ।। अलक्तकादिनिष्पेषेऽप्येष श्रीशार्ङ्गिणोदितः । इति संदंश: (२३) स इति । सः ; ऊर्णनाभः चौर्येण केशादिषु ग्रहणे, शिरः कण्डूयने च कार्यः । सिंहव्याघ्रादिनखरायुधाभिनये, चिबुकक्षेत्रगौ, चिबुकक्षेत्रवर्तमानौ तौ द्वावूर्णनाभौ स्वस्तिकौ स्वस्तिकसंयुक्तौ कार्यौ ॥ - १७३, १७४- ॥ इत्यूर्णनाभः (२२) (सु०) संदेशं लक्षयति — अरालेति । यत्र अराल एव अङ्गुष्टतर्जन्यौ परस्परलग्नाग्रे निम्नतां गते, किंचित् तलमध्यस्थे च भवतः, तदा संदेशो भवति । तस्य भेदानाह - स इति । संदशः त्रिविधः ; अग्रजः, मुखजः, पार्श्वज इति । प्राङ्मुख अग्रज: ; संमुखो मुखज: ; पार्श्वमुखः पार्श्वज इति । अस्य विनियोगस्तु — कण्टकोद्धरणे, सूक्ष्मकुसुमावचयादिषु च प्रथमः कार्यः । रोषत: विगित्युक्तौ ; वृन्तात् पुष्पोद्धरणे; वर्तिशलाकाअनपुरणे च द्वितीयः । मुक्ताफ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy