________________
सप्तमो नर्तनाध्यायः
388 यत्राङ्गुष्ठानलग्नाश्च संहताङ्गुलयोऽखिलाः ॥ १६९ ॥ ऊर्ध्वाश्च मुकुलः स स्यात्पादिमुकुलाकृतौ । बलिकर्मणि देवानां पूजने भोजनादिषु ।। १७० ।। मुंहुर्विकास्य प्रकृति नीतो दाने त्वरान्विते । मुखचुम्बे तु कान्तानां संनिधौ विटचुम्बने ॥ १७१॥ कुचकक्षादिदेशस्थः स्यादाच्छुरितके करः। यदाङ्गुलीपञ्चकेन सशब्दं नखलेखनम् ।। १७२ ।। कुचादौ कामसूत्रज्ञास्तदाच्छुरितकं विदुः ।
इति मुकुल: (२१) पद्मकोशस्य यत्र स्युरगुल्यः पञ्च कुञ्चिताः ॥ १७३ ॥ ऊर्णनाभः स चौर्येण ग्रहे केशग्रहादिषु । शिरःकण्डूयने कार्यश्चिबुकक्षेत्रगौ च तौ ॥ १७४ ॥
(सु०) मुकुलं लक्षयति-यत्रेति । यत्र ; अगुष्ठानलग्नाः; अङ्गुष्टस्य अग्रेण लग्नमग्रं यासां, तथाविधाः, संहताः; मिलिताः, अखिला अप्यङ्गुलयः ऊर्ध्वाकाराश्च सन्ति ; स मुकुलाख्यो हस्तकः । स च, पद्मादिमुकुलाकृतौ; पद्ममुकुलाकारादिषु, बलिकर्मणि, देवानां पूजने, भोजनादिषु च विनियुज्यते । अयमेव मुकुल:, पुनः विकास्य ; विकासं प्राप्य, प्रकृति नीत: ; स्वभावं प्रापितश्चेत्, त्वरान्विते दाने कार्यः । अयमेव करः, कान्तानां संनिधौ मुकुलीकृत्य मुखचुम्बने, अथवा विटचुम्बने, विटाश्चुम्बन्तीति विटचुम्बनं तस्मिन् ; कुचकक्षादिदेशस्थः सन् आच्छुरितके विधीयते । आच्छुरितकलक्षणमाह-यदेति । यदा अगुलीपञ्चकेन कुचकक्षादौ, सशब्दनखलेखनं, तदा आच्छुरितकमिति कामसूत्रज्ञा आहुः ॥ -१६९-१७२- ॥
__ इति मुकुल: (२१) (सु०) ऊर्णनाभं लक्षयति-पद्मकोशस्येति । यत्र पूर्वोक्तपद्मकोशस्य पञ्च अगुल्यः कुञ्चिताः स्युः, स ऊर्णनाभः । तस्य विनियोगमाह- .
Scanned by Gitarth Ganga Research Institute