________________
४८
संगीतरत्नाकरः अगुष्ठमध्यमाङ्गुल्यौ श्लिष्टाने तर्जनी नता ॥ १६७ ॥ यत्रो विरले शेषे स करो भ्रमरो भवेत् । ग्रहणे दीर्घनालानां पुष्पाणामयमिष्यते ॥ १६८ ॥ कर्णपूरे तालपत्रे कण्टकोद्धरणादिषु ।
इति भ्रमर: (२०) प्रसिद्धाः कटाक्षवीक्षणभुजाक्षेपादयो विलासा गृह्यन्ते । यथारसम् ; स्वाभिव्यङ्ग्यं प्रकृतरसमनतिक्रम्येत्यर्थः । रसेषु ; शृङ्गारादिषु ; एषः, हंसपक्षः । प्रयोज्यो भवतीति शेषः । हंसपक्षोक्तं रसव्यञ्जकत्वं हस्तान्तरेष्वपि द्रष्टव्यमित्याह-अनुभावा इति ॥ -१६३-१६६- ।
___ इति हंसपक्षः (१९) (सु०) हंसपक्षं लक्षयति-यदीति । किंचिद् ; अल्पं, नमत् ; नमनं प्राप्तं मूलं यस्य ; तथाविधस्य पताकस्य तर्जन्याद्यलित्रयं यदि स्यात् , तदा हंसपक्षः । अस्य विनियोगमाह--अयमिति । अयं हंसपक्ष: आचमने, चन्दनाद्यनुलेपने हनुदेशगतः कार्यः । दुःखजे तु हनुधारणे । मण्डलीकृतबाहू; मण्डलीकृतौ वर्तुलाकारौ बाहू ययोः, तथाविधौ तौ द्वौ हंसपक्षौ महास्तम्भप्रदर्शने कार्यः । आलिङ्गने; संस्पर्श, स्वस्तिकीकृतौ तौ हंसपक्षौ प्रत्यक्षपरोक्षालिङ्गनयोर्यथायोगं विनियोगः कार्यः । एषः; हंसपक्षस्तु रोमाञ्चाद्यनुभावैः यथारसमभिनेयः । एवं हस्तान्तरेष्वपि रसवशात् अनुभावा: कार्याः ॥ -१६३-१६६- ॥
इति हंसपक्षः (१९) ___ (सु०) भ्रमरं लक्षयति-अङ्गुष्ठेति | अङ्गुष्ठमध्यमावगुल्यौ श्लिष्टे अग्रे तर्जनी यत्र, तद्वत् नम्रीभूतौ शेषे अनामिकाकनिष्ठिके ऊर्ध्व विरले च स्त:, स भ्रमराख्यो हस्तकः । तस्य विनियोगमाह-ग्रहण इति । अयं दीर्घनालकुसुमग्रहणे, कर्णपूरे, तालपत्रे, कण्टकोद्धरणादिषु च विनियुज्यते ॥-१६७, १६८-॥
इति भ्रमरः (२०)
Scanned by Gitarth Ganga Research Institute