________________
सप्तमो नर्तनाध्यायः यदि किंचिन्नमन्मूलं तर्जन्याद्यगुलित्रयम् ॥ १६३ ॥ पताकस्य तदा हस्तं हंसपक्षं प्रचक्षते । अयमाचमने कार्यश्चन्दनाद्यनुलेपने ॥ १६४ ।। हनुदेशगतस्तु स्याद् दुःखजे हनुधारणे । मण्डलीकृतबाहू तौ महास्तम्भप्रदर्शने ॥ १६५ ॥ आलिङ्गने च प्रत्यक्षे परोक्षे स्वस्तिकीकृतौ । रोमाञ्चायनुभावस्तु रसेष्वेव यथारसम् ॥ १६६ ॥ अनुभावा रसवशात्कार्या हस्तान्तरेष्वपि ।
इति हंसपक्ष: (१९)
(सु०) हंसास्यं लक्षयति-लग्नेति । यत्र तर्जन्यङ्गुष्ठमध्यमाः ; त्रेतामिसंस्थानाः; त्रेतग्निवत् त्रिकोणाः संस्थिताः; संलमाः; परस्परं संलग्ना भवन्ति । शेषे ; अनामिकाकनिष्ठिके, ऊर्दू विरले च यत्र भवेत् स हंसास्यः । अस्य विनियोगमाह-अयमिति । अयं हंसास्यः मर्दितमग्रं दधन्मृदुनि, निःसारे च प्रयुज्यते । मथितमग्रं दधत् श्लक्ष्णे विनियुज्यते । क्षिप्तम् उत्क्षिप्तमग्रं दधदल्पे नियुज्यते । विधूनितमग्रं दधत् शिथिले लघौ च विनियुज्यते । कुसुमावचयादिषु अयमौचित्यात् च्युतयुक्तं यथातथा विनियुज्यते ॥ १६१-१६२-॥
इति हंस्यास्यः (१८)
___(क०) हंसपक्षहस्तविनियोगे-परोक्षे स्वस्तिकीकृताविति । अप्रत्यक्षे कृत आलिङ्गने, स्वस्तिकीकृतौ पार्श्वव्यत्यासेन अन्योन्यांसपर्यन्तं प्रापितावित्यर्थः । रोमाञ्चेत्यादि । रोमाञ्चादीनां सात्त्विकत्वेऽपि, अनु पश्चाद्भवतीति व्युत्पत्त्या अनुभावत्वमप्युपपन्नम् । आदिशब्देनानुभावत्वेन
Scanned by Gitarth Ganga Research Institute