________________
संगीतरत्नाकरः सर्पशीर्षकरस्यो यदाङ्गुष्ठकनिष्ठिके । मृगशीर्षस्तदा हस्तः स त्वधोवदनो भवेत् ॥ १५९ ॥ अद्येहसांप्रतार्थेघूत्तानोद्यूताक्षपातने । गण्डादिक्षेत्रसंस्थस्तु गण्डादिस्वेदमार्जने ॥ १६० ॥
इति मृगशीर्षः (१७) लग्नास्त्रेताग्निसंस्थानास्तर्जन्यङ्गुष्ठमध्यमाः। शेषे यत्रो विरले हंसास्यः सोऽभिधीयते ॥ १६१ ॥ अयं मृदुनि निःसारे श्लक्ष्णेऽल्पे शिथिले लघौ । मर्दितं मथितं क्षिप्तं दधदग्रं विधूनितम् ॥ १६२ ।। औचित्याचच्युतयुक्तं तु कुसुमावचयादिषु ।
इति हस्यास्यः (१८)
(सु०) मृगशीर्ष लक्षयति--सर्पशीर्षेति । ऊर्वीकृताष्ठकनिष्ठिकः सर्पशीर्ष एव मृगशिर्पः । अस्य विनियोगस्तु-यद्ययमधोवदनो भवेत्, तदा अद्य, इह, सांप्रतमित्यस्मिन्नर्थे कार्यः । अयमुत्तानश्चेत् द्यूते, अक्षपातने च कार्यः । अयं गण्डादिक्षेत्रसंस्थश्चेत्, गण्डादिस्वेदमार्जने योज्यः ॥ १५९, १६० ॥
इति मृगशीर्षः (१७) ___ (क०) हंसास्यहस्तविनियोगे-अयं मृदुनि निःसारे श्लक्ष्णेऽल्पे शिथिले लघौ मर्दितं मथितं क्षिप्तं दधदयं विधूनितमिति । अयं हंसास्यो मर्दितमग्रं दधन्मृदुनि निःसारे च प्रयुज्यते । मथितमग्रं दधत् श्लक्ष्णे विनियुज्यते । क्षिप्तमग्रं दधदल्पे विनियुज्यते। विनितमयं दधत् शिथिले लघौ च विनियुज्यते । एवं योजनीयम् ॥ १६१-१६२- ।।
इति हंस्यास्य: (१८)
Scanned by Gitarth Ganga Research Institute