________________
सप्तमो नर्तनाध्यायः अस्याङ्गुष्ठो मध्यमाया मध्यपर्वोदरं श्रितः । ऊर्ध्वा कनीयसी यत्र चतुरं तं करं विदुः ॥ १५४ ॥
अन्ये पताकाङ्गुष्ठस्य मध्यमामूलसंस्थितिम् । ईषच्च पृष्ठतो यान्तीं कनिष्ठां च परे जगुः ।। १५५ ॥ नये वदनदेशस्थो युतौ द्वौ मणिबन्धयोः । विनयेऽथ विचारे स्यात्पार्धगोऽथ हृदि स्थितः ॥ १५६ ॥ ऊहापोहौ च लीलायामुद्वेष्टितयुतः करः । कैतवेऽक्षप्रेरणे च भवेदूर्ध्वतलः समे ॥ १५७ ॥ अङ्गुष्ठमध्यमन्योन्यवन्धनेन तु मार्दवे । चातुर्यवचने त्वेतौ संयुतौ चतुरोदितौ ।। १५८ ।।
इति चतुरः (१६) (सु०) चतुरं लक्षयति-अस्येति । अस्य ; सर्पशिरसोऽङ्गुष्ठः, मध्यमाया अगुल्या मध्यपर्व उदरं श्रितः सन् , कनीयसी ऊर्ध्वा उच्चा यत्र जायते, तं करं चतुराख्यं हस्तकं विदुः । मतान्तरमाह-अन्य इति । अन्ये ; आचार्याः, चतुराख्ये हस्तके पताकाख्यस्य हस्तस्य अङ्गुष्ठस्य मध्यमाया मूले संस्थितिमाहुः । अन्यन्मतान्तरमाह-पर इति । परे तु; आचार्याः, कनिष्ठां च ईषत् किंचित् पृष्ठतः, स्वस्य पृष्ठतो यान्तीं गतामाहुः । अस्य विनियोगस्तु-अयं वदनदेशस्थो यदि भवति, तदा नये नीतिमार्गे विचारणे कार्यः । मणिबन्धयोवेितौ युक्तौ चेत्, तदा विनये कार्य:। अयमेव यदि पार्श्वगतः, तदा विचारे कार्यः । यदि हृदि स्थितश्चेत् , तदा ऊहापोहयो: । यदि उद्वेष्टितयुत: करश्चेत् तदा लीलायां प्रयोज्यः । समे ऊर्ध्वतलश्चेत् तदा कैतवे, अक्षप्रेरणे च कार्यः । अगुष्ठमध्यमयोरन्योन्यं बन्धने कृते सति मार्दवे विनियुज्यते । एतौ द्वौ चतुरोदितौ संयुतौ युक्तौ चेत् , तदा चातुर्यवचने प्रयोज्यौ ॥ २५४-१५८ ॥ .
इति चतुरः (१६)
Scanned by Gitarth Ganga Research Institute