________________
४४
संगीतरत्नाकरः ऊर्चवक्त्राधोमुखी च निजपार्श्वगता तथा । पार्थान्तरानिज पार्श्वमायान्ती च क्रमाद्भवेत् ॥ १४९ ॥ पताकायां भवेदूर्वा साधुवादे च दोलिता । एकत्वे तर्जनी चोर्ध्वा नासास्था श्वासवीक्षणे ।। १५० ॥ अधस्तले पार्थयुक्ते संयोगे विरहे पुनः । वियुक्ते च विधातव्ये शाईदेवेन कीर्तिते ॥ १५१ ॥
इति सूचीमुख: (१४) पताको निम्नमध्यो यः स तु सर्पशिराः करः । देवेभ्यस्तोयदानेऽसावुत्तानोऽधोमुखः पुनः ॥ १५२ ॥ भुजङ्गमगतौ स स्यादास्फाले करिकुम्भयोः । भुजास्फोटे च मल्लानां नियुद्धादिषु कीर्तितः ।। १५३ ।।
___इति सर्पशिरा: (१५) कुम्भकारोपकरणे, तथा रथाङ्गे, जनसंघाते च अयं सूचीमुखो भ्रमतर्जनीको भवेत् । तथा अयमेव तर्जनी ऊर्ध्ववक्त्रा, अधोमुखी च निजपार्श्वगता भवेत्, तदा पताकायाम् । साधुवादे; त्वया साधुकृतमित्युक्तौ तु आन्दोलिता तर्जनी ऊर्ध्वा भवेत् । एकत्वे तर्जनी चोर्ध्वा यदि नासास्था भवेत् , तदा श्वासविलोकने प्रयोज्यः । अधस्तले तर्जनीकरः पार्श्वसंयुक्ते सति संयोगेऽभिनेयः । विरहे पुन: तथैव वियुक्तो विधातव्य इति ॥ १४७-१५१ ॥
__इति सूचीमुखः (१४) (सु०) सर्पशिरसं लक्षयति-पताक इति । निम्नमध्यः ; निम्नो नीचो मध्यो यस्य तथाविध: पताक एव करः सर्पशिराः । असौ उत्तानश्चेत् देवेभ्यः तोयदान कार्यः । अयमधो मुखश्चेत्, भुजङ्गमगतौ ; गजकुम्भास्फालने ; मल्लानां भुजास्फोटे ; नियुद्धादिषु च कार्यः ॥ १५२, १५३ ॥
___ इति सर्पशिराः (१५)
Scanned by Gitarth Ganga Research Institute