________________
सप्तमो नर्तनाध्यायः अन्तःस्थितागुलिः कार्यश्चिन्तायामथ मर्षणे ॥ १८९ ॥ ऊर्ध्व पार्थेऽग्रतो वा स्यात्पराङ्मुखतलागुलिः । अङ्गानां मोटने चाथ बृहदेहे स्वसंमुखः ॥ १९० ॥ जठरक्षेत्रगः पृष्ठे त्वङ्गुलीनां हनुं दधत् । खेदे च संकुचत्किचिदन्योन्याभिमुखामुलिः ॥ १९१ ॥ शङ्खस्य धारणे सोऽयं जृम्भादौ वहिरगुलिः ।
इति कर्कटः (३) एकस्य मणिबन्धेऽन्यमणिबन्धस्थितौ करौ ॥ १९२ ।। देहस्य वामपार्थस्थावुत्तानौ स्वस्तिको मतः । अत्रारालौ पताकौ वाभिनये वशगौ करौ ॥ १९३ ।।
(क०) कर्कटहस्तविनियोगे-पराङ्मुखतलाङ्गुलिरिति । अत्र हस्तयोः पराङ्मुखतलागुलित्वं परस्परापेक्षया अभिनेत्रपेक्षया च द्रष्टव्यम् । बृहद्देहे स्वसंमुख इत्यत्र स्वशब्दोपादानादभिनेतृसंमुखत्वमेव ॥ -१८८-१९१-॥
इति कर्कट: (३) (सु०) कर्कटं लक्षयति-अन्योन्येति । यत्र द्वयोर्हस्तयोः अगुल्यः अन्योन्यस्य; परस्परं मध्ये निर्गत्य, अन्तर्वा बहिश्च दृश्यन्ते स कर्कटः । तस्य विनियोगमाह-अन्तरिति । अन्त:स्थितागुलिश्चेत् चिन्तायां, मर्षणे च कार्यः । ऊर्ध्वगो वा पार्श्वगो वा प्राङ्मुखतलागुलि: सन् अङ्गानां मोटने ; स्वसंमुखः सन् बृहदेहे; जठरक्षेत्रगः सन् अगुल्या हनुं धारयन् खेदे ; संकुच्य किंचिदन्योन्याभिमुखाङ्गुलि: सन् शङ्खधारणे ; बहिरङ्गुलि: सन् जृम्भादौ च कार्यः ॥ -१८८-१९१-॥
इति कर्कट: (३) (सु०) स्वस्तिकं लक्षयति–एकस्येति । यत्र एकस्य हस्तस्य मणिबन्धे, अन्यहस्तमणिबन्धस्योपरि स्थिते सति, उभावपि करौ उत्तानो
Scanned by Gitarth Ganga Research Institute