________________
सप्तमो नर्तनाध्यायः उत्सानस्तुरगादेः स्याद्वल्गाचामरधारणे । कुसुमावचये मुक्तास्रग्दामधरणे तथा ॥ १३५ ॥ शरमन्थाकर्णणे च संमुखो दर्पणग्रहे । कस्तूरिकादिवस्तूनां पेषणेऽधस्तलौ करौ ॥ १३६ ॥ ताम्बूलवीटिकान्तच्छेदनादौ च स स्मृतः ।
इति खटकामुखः (९) अरालस्य यदात्यन्तवक्रे तर्जन्यनामिके ॥ १३७॥ शुकतुण्डस्तदा स स्यात्प्रेमकोपे नवेर्ण्यया । नाहं न त्वं न मे कृत्यं त्वयेति वचने तथा ॥ १३८ ॥ घूताक्षपातनादौ स्यात्सावज्ञे तु विसर्जने । आहाने च बहिश्चान्तः क्रमाक्षिप्ताङ्गुलिर्भवेत् ।। १३९ ॥
इति शुक्रतुण्ड: (१०) . चये, मुक्तास्रग्दामधारणे; तथा शरमन्थाकर्षणे च प्रयुज्यते । अयं संमुखश्चेत् , दर्पणग्रहणे, कस्तूरिकादिवस्तूनां चूर्णीकरणे च प्रयुज्यते । अयमधस्तल: स्थितश्चेत्, ताम्बूलवीटिकावृन्तच्छेदनादौ च प्रयुज्यते ॥ १३४-१३६-॥
इति खटकामुखः (९) (सु०) शुकतुण्डं लक्षयति-अरालस्येति । अरालस्य पूर्वोक्तहस्तकस्य तर्जन्यनामिके द्वे अमुल्यौ यदा अत्यन्तवक्रीकृतौ भवेताम् , तदा शुकतुण्डाख्यो हस्तो भवति । तस्य विनियोगमाह-स इति | स: ; शुकतुण्डः, नवय॑या प्रेमकोपे, प्रीतिकोपे, 'नाहं न त्वम्', 'त्वया न मे कृत्यमस्ति,' इति वचने, द्यूताक्षपातनादौ, सावज्ञविसर्जने च प्रयुज्यते । अयमेव बहिरन्तश्च क्रमात् क्षिप्ता अगुलयो यत्र, तथाविधः शुकतुण्डः आह्वाने विनियुज्यते ॥ -१३७-१३९ ॥
इति शुकतुण्ड: (१०)
Scanned by Gitarth Ganga Research Institute