________________
४२
संगीतरत्नाकर:
कालेऽनामिका वा भवेदूर्ध्वा कनीयसी । ऊर्ध्वास्त्रेताग्निसंस्थानास्तर्जन्यङ्गुष्ठमध्यमाः । १४० ।। फलेऽल्पे च मिते ग्रासे स्याद्विडालपदादिषु । चिकग्रहणे चैव बालकानां विधीयते ॥ १४१ ॥ इति काल : (११)
अङ्गुष्ठाङ्गुलयो यस्मिन्नलग्नाग्रा धनुर्नताः ।
विरलाः पद्मकोशोऽसौ कार्यो देवार्चने बलौ ॥ १४२ ॥ द्विर्वा विप्रकीर्णाः पुष्पाणां प्रकरे करः । फले बिल्वकपित्थादौ स्त्रीणां च कुचकुम्भयोः ॥ १४३ ॥ इति पद्मकोश: ( १२ )
(सु०) काङ्गुलं लक्षयति - काले इति । यत्र अनामिका वक्रा भवेत् । कनियसी च ऊर्ध्वा ऊर्ध्वाकारा उच्चा भवेत् । एतस्मिन्नेव तर्जन्यङ्गुष्ठमध्यमाः त्रेताग्निवत् त्रिकोणाकाराः स्थिताः, स एव कालः । अस्य विनियोगमाहफले इति । अल्पे फले; लघीयसि फले, परिमितप्रासे, बिडालपदानुकरणादिष्ट, बालकानं चिबुकग्रहणे च विधीयते ॥ १४०, १४१- ॥
इति काल: (११)
(क०) पद्मकोशहस्तलक्षणे – अङ्गुष्ठाङ्गुलय इति । अङ्गुष्ठादयोऽङ्गुलय इत्यर्थः ॥ १४२, १४३ ॥
इति पद्मकोश: ( १२ )
( सु० ) पद्मकोशं लक्षयति- अङ्गुष्ठेति । यस्मिन् अङ्गुष्ठाङ्गुलयः अलग्नाग्राः धनुराकारेण नताः विरलाश्च भवन्ति, स पद्मकोशः । तस्य विनियोगमाह - असौ ; पद्मकोशः, देवार्चनादौ, बलिप्रदाने च कार्य: । अयमेव कर: द्वित्रिर्वा विप्रकीर्णामश्चेत् पुष्पाणां प्रकरे, बिल्वकपित्थादौ फले, स्त्रीणां कुचकुम्भयोः मर्दने च विनियोगः ॥ १४२, १४३ ॥
इति पद्मकोश: (१२)
Scanned by Gitarth Ganga Research Institute