SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ४० संगीतरत्नाकरः अङ्गुष्ठाग्रेण लग्नाग्रा तर्जनी शिखरस्य चेत् । कपित्थः स्यात्तदा कार्यों धारणे कुन्तवयोः ॥ १३२ ॥ चक्रचापगदादेश्च शराकर्षादिकर्मणि । अन्योन्यकार्यविषयौ कपित्थशिखरौ कचित् ।। १३३ । इति कपित्थः ( ८ ) अनामिकाकनीयस्यावुत्क्षिप्ते कुटिलीकृते । विरले चेत्कपित्थस्य तदा स्यात्खटकामुखः ।। १३४ ॥ (सु० ) शिखरं लक्षयति- मुष्टेरिति । ऊर्ध्वं उच्चः कृतः अङ्गुष्ठो यस्मिन् तथाविधो मुष्टिरेव शिखरः । तस्य विनियोगस्तु — शक्तितोमरमोक्षणे ; तोमरः कुन्तविशेषः, धनुर्ग्रहणे, 'भल्लादिग्रहणे, अङ्कुशग्रहणे च प्रयुज्यते । अलोकोत्पीडने ; अलकानामुत्पीडने मुष्टिः कार्यः । सोऽप्यस्य शिखरस्य लोकानुसारतः कार्यः ॥ -१३०, १३१- ॥ इति शिखरः ( ७ ) (सु०) कपित्थं लक्षयति — अङ्गुष्ठेति । अङ्गुष्ठाग्रेण ; अङ्गुष्टस्य अ अगुलयो यस्मिन् एवंविधः तर्जनी संश्लिष्टाप्रभाग्भवति चेत्, तदा कपित्थो भवति । तस्य नियोगस्तु - कुन्तस्य, वज्रस्य, हीरकस्य च धारणे, चक्रचापगदादेश्व, शराकर्षणादिव्यापारे च प्रयुज्यते । कपित्थशिखरौ कचित् व्यापारविशेषे परस्परकार्यविषयौ प्रयोक्तव्यौ। शिखरकार्ये कपित्थः प्रयोक्तव्य इत्यर्थः ॥ १३२ - १३३-॥ इति कपित्थ: ( ८ ) (सु० ) खटकामुखं लक्षयति — अनामिकेति । यदा कपित्थ एव अनामिका कनीयस्यौ द्वे अङ्गुली ऊर्ध्वमुत्क्षिप्ते, कुटिलीकृते, विरले च तदा खटकामुखः । तस्य विनियोगस्तु - अयमुत्तानश्चेत् वल्गच्चामरधारणे, कुसुमावशस्त्रविशेष: Scanned by Gitarth Ganga Research Institute 1 भलः,
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy