________________
३९
सप्तमो नर्तनाध्यायः तलमध्यस्थितैर्लग्गैरफुल्यौरगोपितैः ॥ १२८ ॥ निपीड्य मध्यमां तिष्ठत्यङ्गुष्ठो मुष्टिरुच्यते । कुन्तनिस्त्रिंशदण्डादिग्रहे विविधयोधने ॥ १२९ ॥ धावने प्राङ्मुखाङ्गुष्ठो मल्लयुद्धे करद्वयम् ।
इति मुष्टिः (६) मुष्टरूर्ध्वकृतोऽङ्गुष्ठः शिखरः संप्रयुज्यते ॥ १३० ॥ शक्तितोमरयोर्मोक्षे धनुर्भल्लाङ्कुशग्रहे । अलकोत्पीडने मुष्टिः कार्यः सोऽप्यस्य लोकतः ॥ १३१ ॥
___ इति शिखर: (७) देवतानां प्रदक्षिणे कार्य: । बहिः ; बहि:प्रदेशे, पुनः पुन: क्षिप्ता अगुलयो यस्मिन् , तथाविधोऽराल: कस्त्वम् ? कोऽहम् ? क: संबन्ध: ? इत्यसंबद्धभाषणे संबन्धाभावभाषणे प्रयुज्यते । भालस्थितः ; भाले निटिले स्थितोऽरालः पुनः भालस्वेदापनयने, त्रिपताकोदितेषु वस्तुषु च प्रयोज्यः ॥ १२२-१२७- ॥
इत्यराल: (५) (सु०) मुष्टिं लक्षयति-तलमध्येति । तलमध्यस्थितैः लग्नैः संश्लिष्टैः अङ्गुलीनामग्रैः अगोपितैः प्रकटै: अङ्गुष्ठो मध्यमां पीडयित्वा तिष्ठति सति मुष्टिर्नामा हस्तकः । स च कुन्तादिग्रहणे विविधयुद्धे विनियुज्यते । तदेव मुष्टिः प्राङ्मुखागुष्ठश्चेत् तदा धावने, शीघ्रगतौ प्रयुज्यते । मलयुद्धे तदेव मुष्टिः करद्वयेन प्रयुज्यते ॥ -१२८, १२९- ॥
इति शिखरः (६) ____ (क०) शिखरहस्तविनियोगे-मुष्टिः कार्य इति । कुन्तग्रहणादावित्यर्थः । सोऽप्यस्य लोकत इति । सः ; मुष्टिः, अस्य शिखरस्य कार्ये लोकतः लोकानुसाराद्भवतीत्यर्थः ।। -१३०, १३१ ॥
इति शिखर: (७)
Scanned by Gitarth Ganga Research Institute