________________
संगीतरत्नाकरः एकतोऽङ्गुलिसंघाते यत्राङ्गुष्ठे स्थितेऽन्यतः । चन्द्रलेखाकृतिर्भाति सोऽर्धचन्द्रोऽभिधीयते ॥ ११७ ॥ उपर्युत्तानितोऽर्धन्दावूर्ध्वगो बालपादपे । पराङ्मुखस्तु खेदे स्यात्कपोलफलकं दधत् ॥ ११८ ॥ प्रयोक्तव्यः कृशे मध्ये बलानिर्वासनादिषु ।
इत्यर्धचन्द्रः (३) अश्लिष्टमध्यमा पृष्ठे संस्थिता तर्जनी यदा ॥ ११९ ॥ संवृतिं कुर्वन् अनिष्टं गन्धमभिनयेत् । तथा आस्यसंवृतिं कुर्वन् अनिष्टां वाचमभिनयेत् । तथैव श्रोत्रसंवृतिं कुर्वन्ननिष्टं घोषमभिनयेदिति क्रमोऽनुसंधेयः । तथा अधोमुखचलाफुल्यौ धारयन् कटिक्षेत्रगतः कर ऊर्ध्वमधस्तिर्यग्गच्छन् क्रमेण क्षुद्रेषु पक्षिस्रोतोऽनिलेष्वपि भवति । तथैव अधोमुखेन च अङ्गुल्यौ कटिक्षेत्रे वर्तमाने अस्रे रक्तस्रावे, तन्मार्जने च स्यात् । अधोगच्छन्तीमनामिकागुली नेत्रप्रदेशे बिभ्रत् धारयन् तिलकविरचने कार्यः । ललाटे वर्तमानामलिकयुक्तामनामिकां दधानो अलकस्य अपनये; अपसारणे विनियुज्यते ॥ १०९-११६ ॥
इति त्रिपताकः (२) (सु०) अर्धचन्द्रं लक्षयति-एकत इति । एकतः प्रदेशे अङ्गुलिसंघाते अगुलिसमूहे, अङ्गुष्ठे च पृष्ठे पृथगन्यत: स्थिते सति, यः कर: चन्द्रलेखाकृतिवद्भाति सोऽर्धचन्द्रः । एष उपरिप्रदेशे उत्तानीकृतश्चेत् तदा अर्धेन्दौ, तदेव ऊर्ध्वगश्चेत् बालपादपे च अभिनयने कार्यः । पराङ्मुखस्तु खेदे; तदेव कपोलफलकं दधत् ; गण्डफलकं धारयन् कृशे, मध्ये, दौवारिककृतबलान्निर्वासने च कार्यः ॥ ११७-१९८-॥
इत्यार्धचन्द्रः (३) (क०) कर्तरीमुखलक्षणे-पृष्ठे अश्लिष्टमध्यमेति समभिव्याहारात्
Scanned by Gitarth Ganga Research Institute