________________
सप्तमो नर्तनाध्यायः
त्रिपातकस्य हस्तस्य तदा स्यात्कर्तरीमुखः । अलक्तकादिना पादरञ्जने पतने पुनः ॥ १२० ॥ मध्यमां तर्जनीस्थाने पुनस्तत्रैव तर्जनीम् । दधानोऽधोगतोऽथाग्रस्थोत्ताने लेख्यवाचने ॥ १२१ ॥ इति कर्तरीमुखः (४)
तर्जन्यादिष्वङ्गुलीषु प्राच्याः माच्याः परा परा । दूरस्थोच्चा मनाग्वका धनुर्वक्रा तु तर्जनी || १२२ ॥ अङ्गुष्ठः कुञ्चितो यत्र तमरालं प्रचक्षते ।
३७
मध्यमायाः पृष्ठमेव गम्यते । पृष्ठं पाश्चात्यो भागः । विनियोगे चमध्यमां तर्जनीस्थान इति । तर्जन्यां मध्यमाङ्गुलिपुरोभागं नीतायां मध्यमा तर्जनीस्थाने स्थिता भवति । पुनस्तत्रैव तर्जनीमित्यनेन तर्जन्या एव व्यापारः, न मध्यमाया इति गम्यते । एवं दधानोऽधोगतः पतने भवतीत्यन्वयः ॥ - ११९- १२१ ॥
इति कर्तरीमुखः (४)
(सु० ) कर्तरीमुखं लक्षयति- अश्लिष्टेति । त्रिपताकहस्तस्य तर्जनी असंलग्ना सती मध्यमाङ्गुलिपृष्ठे यदा तिष्ठति, तदा कर्तरीमुखः । तस्य विनियोगस्तु - अलक्तकादिना, यावकादिना चरणरञ्जने कार्य: । तर्जनीस्थाने मध्यमां, पुनस्तत्रैव तर्जनीं धारयन्, अग्रे अधोगत उत्तानश्च यदि स्यात् तदा पतने, अथ अग्रस्थोत्ताने लिखितवाचने च विनियोगः कार्यः ॥ - ११९ - १२१ ॥ इति कर्तरीमुखः (४)
(क०) अरालहस्तलक्षणे – तर्जन्यादिष्वङ्गुलीषु प्राच्याः प्राच्याः परा परेति । मध्यमापेक्षया तर्जनी प्राची; अनामिकापेक्षया कनीयसी परेति द्रष्टव्यम् । तत्र परा परा मध्यमादिः प्राच्याः प्राच्याः तर्जन्यादेः
Scanned by Gitarth Ganga Research Institute