________________
सप्तमो नर्तनाध्यायः
तादृगेव किरीटस्य धृतौ मूर्ध्वदेशगः । अनिष्टे गन्धवाग्घोषे नासास्य श्रोत्रसंवृतिम् ॥ ११३ ॥ अङ्गुलीभ्यां क्रमात्कुर्वन् पक्षिस्रोतोऽनिलेषु तु । क्षुद्रेपूर्ध्वमधस्तिर्यक् क्रमाद्गच्छन् दधत्तथा ॥ ११४ ॥ अधोमुखचला गुल्यौ कटिक्षेत्रगतः करः । असे तन्मार्जने च स्यादधो यान्तीमनामिकाम् ।। ११५ ।। नेत्रक्षेत्रगतां विभ्रत्ति के तु ललाटगम् । अलकस्यापनयने दधत्तामलकान्विताम् ।। ११६ ॥
इति त्रिपताकः (२)
३५
मुकुटप्रतीतिर्भवेदित्यर्थः । अनिष्ट इत्यादि । अङ्गुलीभ्यां तर्जनीमध्यमाभ्यां नासा संवृत्तिं कुर्वत् अनिष्टं गन्धमभिनयंत् । तथा आस्यसंवृत्तिं कुर्वन् अनिष्टां वाचमभिनयेत । तथा श्रोत्रसंवृतिं कुर्वन् अनिष्टं घोषमभिनयेदिति क्रमो द्रष्टव्यः । तथा अधोमुखचलाङ्गुल्यौ दधत् कटिक्षेत्रगत : कर ऊर्ध्वमधस्तिर्यग्गच्छंस्तु क्रमात् क्षुद्रेषु पक्षिस्रोतोऽनिलेषु भवतीत्यन्वयः ॥१०९-११६॥ इति त्रिपताकः ( २ )
;
"
( मु० ) त्रिपताकं लक्षयति — स एवेति । सः पताक एव वक्रिता अनामिकाङ्गुलिर्यस्मिन् तथाविधः त्रिपताको भवति । स च दध्यादिमङ्गलद्रव्यस्पर्शे विनियुज्यते | लग्नस्य द्व्यङ्गुलादेराकुञ्चनात् पराङ्मुख आह्वाने च विनियुज्यते । बहिः क्षिप्तमङ्गुलिद्वन्द्वं यस्य अधस्तलः तधाविधः करः अनादरे, नमस्कारे च कार्य: । उत्तानिताङ्गुलिद्वन्द्वः पार्श्वतलस्थः वदनोन्नते, क्रमेण अङ्गुल्यौ नतोन्नते दधन् संशये विनियुज्यते । द्वौ अङ्गुलौ अधोमुखशिरः प्रान्ते भ्रमन् उष्णीषधारणे प्रयोज्यः । स एव मूर्धोर्ध्वदेशगः किरीटधारणे प्रयोज्यः । अनिष्टे निषेधे अड्गुलीभ्यां तर्जनीमध्यमाभ्यां नासिका -
Scanned by Gitarth Ganga Research Institute