SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः स एव त्रिपताकः स्याद्वक्रितानामिकाङ्गुलिः । दध्यादिमङ्गलद्रव्यस्पर्शादौ स विधीयते ॥ १०९ ॥ पराङ्मुखः स्यादाहाने लग्नद्वयगुलिकुञ्चनात् । बहिः क्षिप्ताङ्गुलिद्वन्द्वोऽधस्तलोऽनादरोज्झिते ॥ ११० ॥ नमस्कारे त्वसौ कार्यः शिरस्थः पार्वतस्तलः । उत्तानिताङ्गुलिद्वन्द्वो वदनोन्नमने मतः ॥ १११ ॥ संदेहे दधदगुल्यौ क्रमेणैव नतोन्नते । अधोमुखः शिरःप्रान्ते भ्रमन्नुष्णीषधारणे ॥ ११२ ॥ पताक: उच्छ्रितेषु उच्चेषु प्रयुज्यते । अधोगच्छन् पुष्करप्रहतौ प्रयुज्यते । कटिक्षेत्रादूर्ध्व गच्छन् उत्क्षेपाभिनये प्रयुज्यते । निजपार्श्वत: ; स्वपार्श्वत: मुखक्षेत्रमागच्छन् आभिमुख्ये भवति । असौ ; पताकस्तु स्वपार्श्वे कम्पमान: सन् प्रतिषेधे विनियुज्यते । शीघ्रमिति । पताकम् अधिष्ठाय शीघ्रं घर्षन क्षालने अभिनयेत् । शनैः घर्षन् कृतः पताकस्तु, मर्दने मार्जने च विनियुज्यते । तथा उत्पाटने, शिलादिस्थूलवस्तुनो धारणे च अन्योन्यसंमुखावेतौ पताको विच्युतौ संलग्नौ कार्यो । अधोगतोच्छूिनचलाङ्गुलिः ; अधोगता उच्छ्रिता चलाश्च अङ्गुलयो यस्य, तथाविधः सन् पताक: वायूमिवेगयोः अभिनये च कार्यः ॥ -१०२-१०८-॥ इति पताक: (१) (क०) त्रिपताकहस्तविनियोगे-तागेव किरीटस्य धृतौ मूोंप्रदेशग इति । उष्णीषधारणाभिनये, अधोमुखः शिरः प्रान्ते भ्रमन्निति याहगुक्तः, ताहगेव मूर्योर्ध्वदेशगश्चेति । अमयर्थ:--- अधोमुख स्त्रिपताकहस्तः प्रथमं शिरःप्रान्ते भ्रान्त्वा, ततः तदूर्ध्वदेशे पूर्वावृत्यर्धपरिमाणवतया भ्रान्त्या, ततोऽप्यूर्वदेशे तदर्धावृत्तिपरिमाणवत्तया भ्रमन् किरीटस्य धृतौ धारणाभिनये भवति । शिरस उपरिभाग आनुपूर्येण स्थूलमूलसूक्ष्माग्रत्वदर्शने Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy