________________
सप्तमो नर्तनाध्यायः ऊर्ध्व गच्छन्नुच्छ्रितेषु पुष्करमहतौ त्वधः ॥ १०४ ॥ ऊर्ध्वं गच्छन्कटिक्षेत्रादुत्क्षेपाभिनये करः। आभिमुख्ये मुखक्षेत्रमागच्छन्निजपार्वतः ॥ १०५ ॥ स्वपार्वे कम्पमानस्तु प्रतिषेधे भवत्यसौ । शीघ्रं घर्षनधिष्ठाय पताकः क्षालने परम् ॥ १०६ ॥ पताकं तु शनैर्घर्षन् मर्दने मार्जने तथा । उत्पाटने धारणे च शिलादिस्थूलवस्तुनः ॥ १० ॥ उचितौ विच्युतौ कार्यावेतावन्योन्यसंमुखौ । अधोगतोच्छ्रितचलागुलियूर्मिवेगयोः ॥ १०८ ॥
इति पताकः (१) तर्जनीमूलेत्यादि । अत्र पताकादीनां हस्तानां पताकाद्याकारवत्वेन पताकादिशब्दाभिधेयत्वम् । पताकादिशब्दानां च स्ववृत्तिनिमित्तपताकाद्यर्थप्रकाशकत्वात् । अत्र तत्तदभिधेयानां हस्तानां तत्तदर्थप्रदर्शकत्वं च क्वचिदनुक्तमप्यनुसंधेयम् । तत्र पताकहस्तविनियोगे चपेटेत्युच्यते । चपेटो नाम प्रसारितनिरन्तराङ्गुलितलेन हस्तेन वटुचेटादीनामस्थाने प्रहारः ॥ १०२-१०८ ॥
इति पताकः (१) (सु०) पताकं सक्षयति-तर्जनीति । तर्जन्या मूले संलग्न आकुञ्चितो. ऽङ्गुष्ठो यस्य तथाविधः, संहताकार: मिलिताकारः, प्रसारिततलागुलिः; आसारिततलागुलिश्च पताक इति । तस्य विनियोगमाह-वस्त्विति । एष पताक: वस्तुस्पर्शे ; चपेटे च ; चपेटो नाम हस्तघात:, पताकालालनादिषु ; पताको ध्वजः, तस्य लालने प्रयोगः । यदा अगुल्य ऊर्ध्वं गताः प्रविरला: चलाश्च भवन्ति, तदा ज्वालासु प्रयोगः । यदा अमुल्य अधोगताः तदा वर्षधारासु प्रयोगः । पक्षिपक्षाभिनये तु कटिस्थितो भवति । ऊर्ध्व गच्छन्
Scanned by Gitarth Ganga Research Institute