________________
३२
संगीतरत्नाकरः निकुश्चकमयुक्तेषु करं द्विशिखरं पुनः । युक्तेषु नृत्तहस्तेषु त्वधिको वरदाभयौ ॥ १० ॥ ब्रुवन्तः केचिदाचार्या हस्तसप्ततिमूचिरे । तेषामीपद्विकारेऽपि विनियोगेष्वनन्यता ॥ १०१॥ अथासंयुता हस्ताःतर्जनीमूलसंलग्नाकुञ्जिताङ्गुष्ठको भवेत् । पताकः संहताकारः प्रसारिततलागुलिः ॥१०२॥ वस्तुस्पर्शे चपेटे च पताकालालनादिषु । ज्वालासूर्ध्वगतास्वस्याङ्गुल्यः प्रविरलाश्चलाः ॥ १०३ ॥ धारास्वधोगताः पक्षिपक्षे त्वस्य कटिस्थिते ।
तत्राह-विशेषणेति । विशेषणं विशेष्यं च यस्मात् भिन्नपदार्थाविति न दृष्टम् । अत्र दृष्टान्तमाह-नीलमिति । प्रसिद्धेति । लोकप्रसिद्धयपपादनाय मया एषा युक्तिरुक्ता । आचायांणाम् ; भरतादीनाम् । पृथक्पृथगुद्देशलक्षणं च वदता स्वस्तिकादिषु विशेषणं नाभिमतम् ॥ -९५-९९- ॥
(क०) कैश्चिदाचार्यैरधिकहस्तत्रयाङ्गीकारेण हस्तसप्ततिरुक्तेत्याहनिकुञ्चकमित्यादि । तेषां त्रयाणां स्वेनापरिगणने हेतुमाह-तेषामीषद्विकारेऽपि विनियोगेष्वनन्यतेति ॥ १००, १०१ ॥
(सु०) मतान्तरेण हस्तत्रयमुद्दिशति-निकुश्चकमिति । असंयुतहस्तकेषु निकुञ्चकमेकः, युक्तेषु पुनः, संयुतहस्तेषु शिखरः, नृत्तहस्तेषु वरदाभयाविति केचिदाचार्याः हस्ता: सप्ततिरित्याहुः । तेषां मते अन्येभ्य ईषद्विकृतत्वेऽपि विनियोगे अन्यत्वं नास्ति । तुल्यतवेत्यर्थः ॥ -१००, १०१- ॥
(क०) अथ पताकादीनां यथोद्देशक्रमं सविनियोगानि लक्षणान्याह
Scanned by Gitarth Ganga Research Institute