________________
३१
सप्तमो नर्तनाध्यायः कर्तव्यौ स्वस्तिको हस्तौ विप्रकीर्णविशेषणौ । करौ हि स्वस्तिकीभूय विच्युतौ विप्रकीर्णकौ ।। ९५ ॥ स्वतन्त्रयोरतो नास्ति प्रयोगो विभकीर्णयोः । उरोमण्डलिनावेवं पार्श्वमण्डलिनोरिह ।। ९६ ।। विशेषणे चोल्बणयोः कर्तव्यावलपल्लवौ । विशेषणविशेष्ये च न स्यातां भिन्नगामिनी ॥ ९७॥ नीलमुत्पलमित्यत्र न हीष्टं पङ्कजद्वयम् । प्रसिद्धरुपपत्त्यर्थ युक्तिरेषा मयोदिता ॥ ९८ ॥ आचार्याणां तु सर्वेषां पृथगुद्देशलक्षणे ।
वदतां स्वस्तिकायेषु न विशेषणता मता ॥ १० ॥ एते सर्वेऽपि मिलिता: संयुताः, अंसयुताः, नृत्तहस्ताश्च सप्तषष्टिः। ननु लोके चतुःषष्टिहस्तका इति प्रसिद्धिः, तत्कथमुच्यते सप्तषष्टिरिति ? अत्राह-चतु:पष्टित्वमिति । शास्त्रेण युक्त्या वा न चतुःषष्टित्वं घटते, भरतादिशास्त्रेश्वदृष्टत्वात् । अभिनयार्थमेतेषामवश्यंभावाच्च । अथवा अनेन प्रकारेण सूरिभिः ज्ञातृभिः एतेषां हस्तकानां चतुःषष्टित्वमूहनीयम् ।। -९२-९४- ॥
(क०) स्वस्तिकादीनां विप्रकीर्णादिविशेषणतायुक्तिलोकप्रसिद्धयव. गतचतुःषष्टित्वनिर्वाहायास्मभिरेवोक्ता, न त्वाचार्यसंमेतेत्याह-आचार्याणां त्विति ॥ ९५-९९ ॥
(सु०) तमेव प्रकारमाह- कर्तव्याविति । स्वस्तिको हस्तौ विप्रकीविशेषणौ कर्तव्यो। हि यस्मात् कारणात् पूर्व स्वस्तिको भूत्वा पश्चात् विच्युतौ पृथग्भूतौ विप्रकीर्णावित्युच्यते । अत एव स्वस्तिकाभ्यां पृथग्भूतयोविप्रकीर्णयोर्न प्रयोगः । एवमेव उरोमण्डलिनौ पार्श्वमण्डलिनौ विशेषणम् । इह अलपल्लवौ च उल्बणयोर्विशेषणम् । ननु विशेषणत्वेऽपि भेदो भविष्यति ।
Scanned by Gitarth Ganga Research Institute