________________
३०
संगीतरत्नाकरः . युक्तितः संप्रदायाच लोकतोऽत्र विशेषधीः। यथा हि करिहस्तेन हस्ती लोकेऽभिनीयते ॥ ९२ ॥ भट्टाभिनवगुप्तायैरिदमभ्युपगम्यते । सर्वे च मिलिताः सन्तः सप्तषष्टिरिमे कराः ॥ ९३ ॥ चतुःषष्टित्वमेतेषां न युक्त्यागमगोचराः। चतुःषष्टित्वमेवं वा तेषां सूरिभिरूह्यताम् ॥ ९४ ॥
(क०) एवं शास्त्रसंप्रदायाभ्यां नृत्तहस्तानामभिनय विषयत्वमपि विद्यत इति सामान्येनाभिनय विषयत्वे ज्ञाते कुत्र कस्य कथमभिनय इति विशेषजिज्ञासायामाह-- युक्तितः संप्रदायाच लोकतोऽत्र विशेषधीरिति । अत्र नृतहस्तानामभिनयविषयत्वे, विशेषधीः; विशेषज्ञानम् , कचित् युक्तितः; प्रयोक्तुरुपपपत्तिविशेषात् , क्वचित् संप्रदायात् ; आचार्योपदेशपरंपरायाः, क्वचित् लोकतः; लोकचरितात् , एकैकस्मात् द्वाभ्यां त्रिभ्यो वा द्रष्टव्यम् । तत्र लोकतो ज्ञेयमुदाहृत्य दर्शयति --- यथा हि करिहस्तेन हस्ती लोकेऽभिनीयत इति । तदेतदाचार्यैरप्यङ्गीकृतमित्याह-मट्टाभिनवगुप्ताद्यैरिदमभ्युपगम्यत इति । हस्तसंख्यां मिलित्वा दर्शयतिसर्वे चेति । संयुतासंयुतनृत्तहस्ता अत्र सर्वशब्देनोच्यन्ते । लोके तावत्तेषां चतुःषष्टित्वप्रसिद्धिरप्रामाणिकीत्याह-न युक्त्यागमगोचर इति । लोकप्रसिद्धयन्यथानुपपत्त्या चतुःषष्टित्वे युक्तिं ग्रन्थकारः स्वबुद्धया कल्पयतिचतुःषष्टित्वमेवं वेत्यादिना ॥ ९२-९४ ॥
(सु०) कुत्रेत्याकाक्षायामाह-युक्तित इति । प्रयोक्तुरुपपत्तिविशेषात् , आचार्योपदेशपारंपर्यात् , लोकाचाराच द्रष्टव्यम् | लोकाचारमेव दर्शयतियथा हीति । करिहस्तेन गजाभिनयो लोके दृश्यते । भट्टाभिनवगुप्तादयः ; भरतशास्त्रटीकाकाराः, इदम् ; करिहस्ताभिनयम् । अभ्युपागगत् अङ्गयकार्षुः ।
Scanned by Gitarth Ganga Research Institute