________________
सप्तमो नर्तनाध्यायः लताख्यौ हि मुनिर्वक्ति नृत्ताभिनयगोचरौ ।
सूच्यन्तेऽन्ये साहचर्यात्तेनाभिनयगोचराः ॥ ९१ ॥ पनकोशौ, अलपद्मकौ, उल्बणौ, ललितौ, वलिताविति । केचित् एतान् नृत्तहस्तान् अभिनयेऽप्याहुः । कुतः ? शास्त्रात् संप्रदायाचेति ॥ -७८-९०- ॥
(क०) तत्र शास्त्रं तावदर्शयति-लताख्यौ हि मुनिर्वक्ति नृत्ताभिनयगौचराविति । यथाह मुनिः
" तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ तथैव च ।।
___ लताख्यौ च करौ ज्ञेयौ नृताभिनयनं प्रति ॥" इति । संप्रदायं दर्शयति-सूच्यन्ते साहचर्यात्तेनाभिनयगोचरा इति । अस्यार्थः-नृत्तहस्तेषु लताभिनयहस्तयोरभिनय विषयत्वे मुनिवचनेन शास्त्रेण सिद्धे तेन लताहस्तेन साहचर्यादन्ये नृतहस्ता अभिनयगोचराः सूच्यन्त इति । अयमेव संप्रदायो ज्ञेयः । शास्त्रानुक्तस्यापि शास्त्रेणाभ्यनुज्ञातस्य शास्त्राविरोधिनोऽर्थविशेषस्य आचार्यशिष्यपरंपरया यदुपदेशप्रदानं स संप्रदाय इत्येतल्लक्षणलक्षितत्वात् । तथाचोक्तम्
“यो यत्सम्यग्विजानीते स यद्वदति तत्त्वतः ।
स संप्रदायः कथितो विष्णुना लोकजिष्णुना ॥” इति, " यत्र कुत्रचिदाख्याता संस्थितिश्चानुपूर्वतः ।
स संप्रदायः कथितो यथा स्वर्णविभूषणे ॥" इति च ॥ ९१ ॥
(सु०) ननु भरताशास्त्रे नृत्तहस्तानामभिनये विनियोगो न दृश्यते । तत्कथमुक्तं शास्त्रत इति ? तत्राह-लताख्याविति । मुनिः ; भरतः, लताख्यौ हस्तौ, नृत्ते अभिनये च कथयति । अतः कारणात् अन्येऽपि लताख्यहस्तसाहचर्यात् चतुरश्रादयोऽप्यभिनयविषयाः सूच्यन्ते ज्ञाप्यन्त इति ॥ ९१ ॥
Scanned by Gitarth Ganga Research Institute