________________
२८
संगीतरत्नाकरः त्रयोदश संयुताव्यतिरेकेण न स्वार्थस्य गमकाः" ; इत्युक्त्वा, “ एतेषां त्वभिनयहस्तानां छिद्रच्छादनेनैकवर्तनानुप्रवेशादलातचक्रप्रतिमां दर्शयितुं, मसृणोद्धतवर्तनात्मकतया चैकवाक्यार्थवीश्रान्ततां प्रथयितुं, नृत्तस्य च वस्तुभूतत्वेनोक्तस्य स्वरूपमभिधातुं, 'नृत्यन्तौ चेटयौ' इति नृत्तादिविषये च सूच्यङ्कुरादावुपयोगमपि दर्शयितुं नृतशब्देन विशेष्यं निर्दिशति-नृतहस्तानित्यादिना ।" नृतहस्तानधिकृत्य तेनैव, “ संयुतासंयुतरूपोपजीविन एत इत्येकाकिनोऽपि प्रयुज्यन्ते" इति (नाटय० अ०९-१०) अत अञ्जल्यादीनां संयुतरूपतैव । चतुरश्रादीनां तूभयरूपतेति सर्वमवदातम् । अथ कथं चतुरश्रादीनामुद्देशमध्ये, 'करिहस्तश्व' इत्येकवचन निर्देश इत्यत्र ग्रन्थकारः स्वयमेवोपपत्तिं वक्ष्यतीत्यलम् । नृत्तमात्रोपयोगिन इति केषांचिन्मतम् । अन्ये तु एतान् नृत्तहस्तान् शास्त्रतः संप्रदायत अभिनयेऽप्याहुः ॥ -७८-९०॥
(सु०) हस्तभेदानुद्दिशति-पताक इति । पताकादयस्ताम्रचूडान्ता असंयुतहस्ताश्चतुर्विंशतिः; यथा--पताकः, त्रिपताकः, अर्धचन्द्रः, कर्तरीमुख:, अरालः, मुष्टिः, शिखर:, कपित्थः, खटकामुख:, शुकतुण्डः, काशूल:, पद्मकोश:, अलपल्लवः, सूचीमुखः, सर्पशिरा:, चतुरः, मृगशीर्षक:, हंसास्यः, हंसपक्षः, भ्रमरः, मुकुल:, ऊर्णनाभः, संदशः, ताम्रचूड इति । एतेषामभिनयवशात्संयुतत्वमप्यङ्गीक्रियते । अञ्जल्यादयो वर्धमानान्ता संयुतहस्तास्त्रयोदश ; यथा-अञ्जलिः, कपोतः, कर्कटः, स्वस्तिकः, डोलः, पुष्पपुटः, उत्सङ्गः, खटकावर्धमानकः, गजदन्तः, अवहित्थः, निषधः, मकरः, वर्धमान इति । एते सर्वे मिलित्वा सप्तत्रिंशदभिनयहस्ता मुनेरभिमता: । चतुरश्रादयो ललितान्तास्त्रिंशन्नृत्तहस्ताः नृत्तमात्रोपयोगिन एव । यथा-चतुरश्रौ, उद्वृत्तौ, तलमुखौ, स्वस्तिको, विप्रकीर्णो, अरालखटकामुखौ, आविद्धवक्त्रौ, सूच्यास्यौ, रेचितौ, अर्धचितौ, नितम्बौ, पल्लवौ, केशबन्धौ, उत्तानवञ्चितौ, लताकरौ, करिहस्तः, पक्षवञ्चितौ, पक्षप्रद्योतको, दण्डपक्षको, गरुडपक्षको, ऊर्ध्वमण्डलिनौ, पार्श्वमण्डलिनौ, उरोमण्डलिनौ, उर:पार्धिमण्डलिनौ, मुष्टिकस्वस्तिकौ, नलिनी
Scanned by Gitarth Ganga Research Institute