SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ २७ सप्तमो नर्तनाध्यायः आविद्धवक्त्रौ सूच्यास्यौ रेचितावर्धरेचितौ । नितम्बौ पल्लवौ केशवन्धावुत्तानवश्चितौ ।। ८६ ॥ लताख्यौ करिहस्तश्च पक्षवश्चितकाभिधौ । पक्षपद्योतको दण्डपक्षौ गरुडपक्षको ।। ८७ ॥ ऊर्ध्वमण्डलिनौ हस्तौ पार्श्वमण्डलिनावपि । उरोमण्डलिनौ स्यातामुर पार्धिमण्डलौ ॥ ८८ ।। मुष्टिकस्वस्तिकावन्यौ नलिनीपद्मकोशकौ । अलपद्मावुल्वणौ च ललितौ वलिताविति ।। ८९ ॥ नृत्तहस्ता मतास्त्रिंशन्नृत्तमात्रोपयोगिनः । एतानभिनयेऽप्याहुः शास्त्रतः संप्रदायतः ।। ९० ।। तु नृत्तहस्तत्वेन शोभामात्रोपयोगित्वात् तस्य चैकेनापि साध्यत्वात् प्रयोगे पृथक्स्वातन्त्र्यं दर्शयितुं तेषां द्विवचवनिर्देश एवोपपन्नः । यद्यप्येवं पृथक् स्वातन्त्र्यम् , तथापि चतुरश्रावित्यादिकयोरेकरूपयोः ‘अरालखटकामुखौ' इत्यादिकयोः भिन्नरूपयोर्वा एकैकहस्तत्वेन परिगणनं तु तयोरन्योन्यापेक्षया मिलितयोरेव शोभातिशयहेतुत्वविवक्षयेति द्रष्टव्यम् । ननु च नृत्तप्रस्तावे अभिनयहस्तानामुद्देशलक्षणपरीक्षाभिः कोऽर्थः ? इति चेत् , उच्यते-'आङ्गिकोक्तप्रकारेण नृत्तं नृतविदो विदुः' इति खलूक्तम् । तस्यायमर्थः--आङ्गिकाभिनये शिरोहस्तादिभेदानामावगमकत्वे यो यः प्रकार उक्तः, स एवार्थावगमकत्वं विहाय, नर्तकेच्छया यथाशोभं ताललयानुगतत्वेन प्रयुक्तश्चेत् नृत्तं भवतीति । अतोऽत्राङ्गिकाभिनयप्रकारोऽवश्यमादौ वक्तव्य इत्यचोद्यमेतत् । किंच अभिनयप्रस्तावे नृत्तमप्युपकरोति । आवेष्टितादिभिः अभिनयस्या विच्छिन्नाकारतामपोह्य वाक्यार्थविश्रान्तिप्रतीतिजननात् । यथाह-अभिनवगुप्ताचार्यों भारतीयविवृत्तौ, "एते च Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy