________________
२६
संगीतरत्नाकर:
हंसास्यो हंसपक्ष भ्रमरो मुकुलस्तथा ।। ८० ।। ऊर्णनाभश्च संदशस्ताम्रचूडोऽपरः करः । असंयुता मता हस्ताश्चतुर्विंशतिरित्यमी ।। ८१ ।। अभिनेयवशादेषां संयुतत्वमपीष्यते ।
अञ्जलि कपोताख्यः कर्कटः स्वस्तिकस्तथा ॥ ८२ ॥ ste : पुष्पपुटोत्सङ्गौखटकावर्धमानकः । गजदन्तोsaferrer निषधो मकरस्तथा ।। ८३ ।। वर्धमानश्चेति हस्ताः संयुताः स्युत्रयोदश । एतेऽभिनयहस्ता स्युः सप्तत्रिंशन्मुनेर्मताः || ८४ ॥ चतुरश्र तथोदवृत्तौ हस्तौ तलमुखाभिधौ । स्वस्तिकौ विप्रकीर्णाख्यावरालखटकामुखौ || ८५ ।।
तादेषां संयुतत्वमपीष्य इति । अभिनेय: ; अभिनययोग्योऽर्थः I तद्वशात् एतेषां पताकादीनां चतुर्विंशत्यसंयुतहस्तानां संयुतत्वमपीष्यत इति । यथा वक्ष्यति पताकहस्त विनियोगे ; ' उचितौ विच्युतौ कार्यावेतावन्योन्यसंमुखौ' इति । तथा भरतेनाप्युक्तं चतुरहस्तविनियोगे ; “ नयनौपम्यं पद्मदलरूपणं हरिणकरणनिर्देशम् । संयुतकरणेनैव तु चतुरेणैतानि कुर्वीत ॥
99
इति । एवं हस्तान्तरेष्वपि द्रष्टव्यम् । ननु त्रयोदशसंयुतहस्तानां त्रिंशन्नृत्तहस्तानां च हस्तद्र्यनिष्पाद्यत्वे समानेऽप्युद्देशेऽञ्जल्यादीनामेकवचनेन निर्देशः । चतुरश्रादीनां द्विवचनेन निर्देशः कथमिति चेत्; उच्यते-अञ्जल्यादीनामभिनयहस्तत्वेनार्थगमकत्वनियमात् संयुतत्वव्यतिरेकेणार्थगमकत्वाभावात् संयुताकारेणैकहस्तत्वम् । तेनैकवचनिर्देश एवोपपन्नस्तेषाम् । चतुरश्रादीनां
Scanned by Gitarth Ganga Research Institute