________________
सप्रमो नर्तनाध्यायः स्वाभाविकं समं शीर्ष स्वभावामिनये मतम् ॥ ७७ ॥
इति समम् (४) पार्धाभिमुखमन्वर्थ पार्श्वस्थस्यावलोकने ।
इति पार्धाभिमुखम् (५) इति पञ्च शिर:प्रकाराः।
इत्येकोनविंशतिविधं शिरः ।। इस्तभेदानामुद्देश:पताकस्त्रिपताकोऽर्धचन्द्राख्यः कर्तरीमुखः ॥ ७८ ॥ अरालमुष्टिशिखरकपित्थखटकामुखाः । शुकतुण्डश्च काङ्ग्रलः पद्मकोशोऽलपल्लवः ॥ ७९ ॥
सूचीमुखः सर्पशिराश्चतुरो मृगशीर्षकः । शिरः, आरात्रिकं भवति । तस्य विस्मये पराभिप्रायवेदने च विनियोगो दृश्यते ॥ -७६, ७६- ॥
इत्यारात्रिकम् (३) (सु०) समं लक्षयति-स्वाभाविकमिति । स्वाभाविकं विकारहीनं शीर्ष सममुच्यते । तस्य विनियोगः स्वभावाभिनये भवति ॥ -७७ ॥
इति समम् (४) (सु०) पार्वाभिमुखं लक्षयति-पार्वेति । पार्वाभिमुखमित्यन्वर्थ शिरः । तस्य पार्श्वस्थस्यावलोकने विनियोगः ॥ ७७- ॥
इति पाभिमुखम् (५) इति मतान्तरोक्तं पञ्चविधं शिरः ।
आहत्यकोनविंशतिविधं शिरः ।। (क०) अथ हस्तभेदानुद्दिशति-पताक इत्यादिना । अभिनेयव
Scanned by Gitarth Ganga Research Institute