________________
२४
संगीतरत्नाकरः
तिर्यनतोन्नति प्राप्तं शिरस्तिर्यनतोन्नतम् ॥ ७४ ॥ बिब्बोकादिषु कान्तानां तत्प्रयोगं प्रचक्षते ।
इति तिर्यङ्नतो नतम् (१)
स्कन्धानतं तदाख्यातं स्कन्धे यन्निहितं शिरः ॥ ७५ ॥ तन्निद्रामदमूर्च्छासु चिन्तायां तत्प्रयुज्यते ।
इति स्कन्धानतम् (२)
स्कन्धे तु किंचिदाश्लिष्य भ्रान्तमारात्रिकं स्मृतम् ॥ ७६ ॥ विस्मये दृश्यते तच्च पराभिप्रायवेदने । इत्यारात्रिकम् (३)
सर्वदिक्काणि, तथाविधैः सर्वदिक्कैः शिथिलैः लोचनैर्युक्तं शिरो लोलितं भवति । तस्य निद्रागदप्रहावेशमदमूर्च्छासु विनियोग: ॥ - ७३, ७३- ॥ इति ललितन् (१४)
इति भरतोक्तं चतुर्दशविधं शिरः ।
(सु०) मतान्तरोक्तं पञ्चविधं शिरो लक्षयति- तिर्यगित्यादिना । तिर्यक् पार्श्वतः नतोन्नतिं प्राप्तं शिरो नतोन्नतमित्युच्यते । तस्य कान्तानां बिब्बोकादिषु विनियोगः ॥ - ७४, ७४- ॥
इति नतोन्नतम् (१)
(सु०) स्कन्धानतं लक्षयति — स्कन्धानत मिति । स्कन्धे यन्निहितं शिरः स्कन्धानतमित्युच्यते । तस्य निद्रामदमूर्च्छासु, चिन्तायां च विनियोगः ॥-७५, ७५ ॥ इति स्कन्धानतम् (२)
(सु०) आरात्रिकं लक्षयति-स्कन्धे इति । स्कन्धे तु किंचित् आश्लिष्य,
Scanned by Gitarth Ganga Research Institute