________________
सप्तमो नर्तनाध्यायः
तत्कार्य कोपलज्जादिकृते वक्त्रापसारणे । परावृत्तानुकरणे पृष्ठतः प्रेक्षणे तथा ॥ ७१ ॥
इति परामृतम् (११)
ऊर्ध्ववक्त्रं शिरो ज्ञेयमुत्क्षिप्तं तत्प्रयुज्यते । दर्शने तुङ्गवस्तूनां चन्द्रादिव्योमगामिनाम् ।। ७२ ।।
इत्युत्क्षितम् ( १२ )
लज्जादुःखमणामेषु स्यादन्वर्थमधोमुखम् ।
इत्यधोमुखम् (१३)
शिरः स्याल्लोलितं सर्वदिकैः शिथिललोचनैः ॥ ७३ ॥ निद्रागदग्रहावेशमदमूर्च्छासु तन्मतम् ।
इति लोलितम् (१४)
इति भरतोक्तं चतुर्दशविधं शिरः
२३
परावृत्तम् | कोपलज्जादिकृते ; वक्त्रापसरणे ; परावृत्तानुकरणे ; पृष्टत: प्रेक्षणे च तस्य विनियोगः ॥ - ७०, ७१ ॥
इति परावृत्तम् (११)
(सु० ) उत्क्षिप्तं लक्षयति - ऊर्ध्वति । ऊर्ध्ववक्त्रं शिर उत्क्षिप्तम् । तस्य व्योमगामिनां चन्द्रादीनाम्, तुङ्गवस्तूनां दर्शने च विनियोगः ॥ ७२ ॥ इत्युक्षिप्तम् (१२)
(सु० ) अधोमुखं लक्षयति - लज्जेति । अधः मुखं यस्य तत्, अधोमुखमन्वर्थनामकम् । तस्य लज्जादुःखप्रणामेषु विनियोगः ॥ ७२ ॥
इत्यधोमुखम् (१३)
(सु०) लोलितं लक्षयति — शिर इति । सर्वदृक्कैः; सर्वा दिशो येषु तानि
Scanned by Gitarth Ganga Research Institute