________________
संगीतरत्नाकरः उत्क्षिप्तवाहुशिरसं मनग्रीवं निहश्चितम् । विलासे ललिते गर्वे बिब्बोके किलिकिश्चिते ॥ ६५ ॥ मोहायिते कुट्टमिते माने स्तम्भे च तद्भवेत् । विलासो गमनादिः स्यान्चेष्टाश्लिष्टाङ्गया कृता ॥ ६६ ॥ कान्तायाः सुकुमाराङ्गोपाङ्गत्वं ललितं विदुः । विब्बोकस्त्विष्टलाभेन जाताद्र्वादनादरः ॥ ६७ ॥ हर्षाद्रोदनहास्यादि प्रोच्यते किलिकिश्चितम् । मोहायितं प्रियकथादृष्टयादौ तन्मयात्मता ॥ ६८ ॥ केशादिग्रहजे हर्षे दुःखवद्वेदनं तु यत् । तत्स्यात्कुट्टमितं मानो रोषः प्रणयसंभवः ॥ ६९ ॥ स्यात्तु निष्क्रियता स्तम्भो नवोढाप्रियसङ्गमे ।
इति निश्चितम् (१०) पराङ्मुखीकृतं शीर्ष परावृत्तमुदाहृतम् ॥ ७० ॥
(सु०) निहञ्चितं लक्षयति-उत्क्षिप्तमिति | उत्क्षिप्तम उच्चीकृतं बाहुः शिरा यस्मिन् , मन्ना ग्रीवा यस्मिन् , तथाविधं शिरो निहञ्चितं भवति । तस्य विलासादिषु विनियोगः । विलासादीनां लक्षणमाह-विलास इत्यादिना | आश्लिष्टं सुन्दरमङ्गं यस्याः, तथाविधया नार्या कृता गमनादिचेष्टा विलासः । कान्तायाः सुकुमाराङ्गोपाङ्गत्वं ललितम् । इष्टलाभजगर्वात् अनादरो बिब्बोकः । हर्षेण रुदितहास्यादिकं किलिकिञ्चितम् । प्रियस्य गुणश्रवणे, तस्य दर्शने, तच्चरणविन्यासध्वनिश्रवणादौ वा तन्मयत्वं मोट्टायितम् । हर्ष केशादिग्रहणे जाते सति दु खवद्वेदनं कुट्टमितम् । प्रणयजरोषो मानः । निष्क्रियता स्तम्भ इति ॥ ६५-६९ ॥
इति निहच्चितम् (१०) (सु०) परावृत्तं लक्षयति-पराङ्मुखीकृतमिति । पराङ्मुखीकृतं शिरः
Scanned by Gitarth Ganga Research Institute