________________
सप्तमो नर्तनाध्यायः सकृदूर्ध्व शिरो नीतमुद्वाहितमुदीरितम् । शक्तोऽहमिति कार्येऽस्मिन्नभिमाने प्रयुज्यते ॥ ६१॥
. इत्युद्वाहितम् (७) परिमण्डलिताकारभ्रामितं परिवाहितम् । लज्जाभरोद्भवे माने वल्लभानुकृतौ तथा ॥ ६२ ॥ विस्मये च स्मिते हर्षामर्षयोरनुमोदने । विचारे च विचारज्ञाः कार्यमाहुरिदं शिरः ॥ ६३ ॥
इति परिवाहितम् (0) शिरः स्यादश्चितं किंचित्पार्धतो नतकंधरम् । रुक्चिन्तामोहमूर्छासु तत्कार्य हनुधारणे ॥ ६४ ।।
___ इत्यश्चितम् (९) (सु०) उद्वाहितं लक्षयति-सकृदिति । एकवारमूर्वीकृतं शिर उद्वाहितं भवति । अस्मिन् कार्ये शक्तोऽहमित्यभिमाने तस्य प्रयोगः ॥ ६१ ॥
___इत्युद्वाहितम् (७) (सु०) परिवाहितं लक्षयति-परिमण्डलितेति । परितो मण्डलाकारेण भ्रामितं शिरः परिवाहितम् । तस्य लज्जाभरोद्भवे; माने ; वल्लभानुकृतौ, विस्मये ; स्मिते; हर्षामर्षयोरनुमोदने ; विचारे च विनियोगः ॥ ६२, ६३ ॥
इति परिवाहितम् (८) ___ (सु०) अञ्चितं लक्षयति-शिर इति । किंचित् अल्पं पार्श्वप्रदेशेन नतमान प्राप्तः कन्धरो यस्य, तथाविधं शिर अञ्चितं भवति । रुक् ; रोगः, चिन्ता ; विचार:, मोह ; विभ्रमः, मूर्छा ; वक्ष्यमाणलक्षणः, हनुधारणे, हनुः मुखाग्रं तस्य धारणे च विनियोगः ॥ ६४ ॥
__ इत्यश्चितम् (१)
Scanned by Gitarth Ganga Research Institute