________________
संगीतरत्नाकरः बहुशो द्रुतमूर्ध्वाधः कम्पनात्कम्पितं शिरः । ज्ञानेऽभ्युपगमे रोषे वितर्के तर्जने तथा ॥ ५८ ॥ त्वरितप्रश्नवाक्ये च प्रयोक्तव्यमिदं शिरः ।
इति कम्पितम (५) आकम्पितं तदेव स्याद् द्विःप्रयुक्तं शनैर्यदि ॥ ५९॥ एतत्पौरस्त्यनिर्देशप्रश्ने संज्ञोपदेशयोः । आवाहने स्वचित्तस्थकथने च प्रयुज्यते ॥ ६ ॥
इत्याकम्पितम् (६) अवधूतमित्युच्यते । तस्य विनियोगमाह-स्थित्यर्थ इति । स्थित्यर्थे ; प्रतिष्ठार्थे, देशनिर्देशे, संज्ञायाम् , आवाहने, आलापे च प्रयोक्तव्यम् ॥ -५६, ५७॥
इत्यवधूतम् (5) (सु०) कम्पितं लक्षयति-बहुश इति । बहुवारं द्रुतं, शीघ्रम् , ऊर्ध्वमधश्च कम्पनात् कम्पितं शिरो भवति । तस्य विनियोगमाह--ज्ञान इति । ज्ञाने; अभ्युपगमे ; अङ्गीकारे, रोपे; कोपे, वितर्के; संशये, तर्जने; भसने, तथा त्वरितप्रश्नवाक्ये च विनियोगः ॥ ५८-॥
इति कम्पितम् (५)
(सु०) आकम्पितं लक्षयति- आकम्पित मिति । तदेव कम्पितं शिरः शनैः यदि द्वि:प्रयुक्तं, तदा आकम्पितम् । एतस्य विनियोगमाह-एतदिति । पौरस्त्यनिर्देशे, प्रश्ने, संज्ञायाम , उपदेशे च, तथा आवाहने, स्वचित्तस्थाभिप्रायावेदने च प्रयुज्यते ॥ -५९, ६० ॥
इत्याकम्पितम् (6)
Scanned by Gitarth Ganga Research Institute