________________
सप्तमो नर्तनाध्यायः द्रुतगत्या तदेव स्याद्विधुतं तत्पचक्षते । शीतार्ते ज्वरिते भीते सद्यः पीतासवे तथा ॥ ५४ ॥
इति विधुतम् (२) आधूतं तु सकृत्तिर्यगूर्वानीतं शिरो मतम् । गर्वेण स्वाङ्गचीक्षायां पार्श्वस्थो निरीक्षणे ॥ ५५ ॥ शक्तोन्वित्यभिमाने च प्रयोगस्तस्य कीर्तितः ।
इत्याधूतम् (३) यदधः सकृदानीतमवधूतं तदुच्यते ॥५६॥ स्थित्यर्थे देशनिर्देशे संज्ञावाहनयोरपि । आलापे च प्रयोक्तव्यमिदमाहुर्मनीषिणः ॥ ५७ ॥
इत्यवधूतम् (४) स्थितस्य पुरुषस्य, पार्श्वप्रदेशयोरुभयोरीक्षणे, अनाश्वासे, विस्मये, विषादे, अनीप्सिते, अनिच्छायां ; तथा प्रतिषेधे च विनियोगः ॥ ५२, ५३ ॥
इति धुतम् (१) (सु०) विधुतं लक्षयति-द्रुतेति । तदेव धुतं, द्रुतगत्या ; शीघ्रगत्या क्रियमाणं विधुतमित्युच्यते । अस्य विनियोगमाह-शीतेति । शीताते ; शैत्येन पीडिते, ज्वरिते, भीते, तथा सद्य:पीतासवे च विनियोगः ॥ १४ ॥
___ इति विधुतम् (२) (सु०) आधूतं लक्षयति-आधूतमिति । सकृत् ; एकवारं, तिर्यक् ; ऊर्वीकृतं शिर आधूतमित्युच्यते । तस्य विनियोगमाह-गणेति । गण स्वाङ्गविलोकनादिषु, पार्श्वस्थस्य ऊर्ध्वनिरीक्षणे, अहं शक्तोन्वित्यभिमाने च विनियोगः ॥ १५ ॥
इत्याधूतम् (३) (सु०) अवधूतं लक्षयति-यदिति । सकृत् ; एकवारं यद् अधः कृतं शिर
Scanned by Gitarth Ganga Research Institute