________________
१८
संगीतरत्नाकरः
ललितं चेति विज्ञेयं चतुर्दशविधं शिरः ॥ ५० ॥ तिर्यङ्नतोन्नतं स्कान्धानतमारात्रिकं समम् । पार्श्वाभिमुखमित्यन्यान् भेदान् पञ्चापरे जगुः ॥ ५१॥ पर्यायेण शनैस्तिर्यग्गतमुक्तं धुतं शिरः । शून्यस्थानस्थितस्यैव पार्श्वदेशावलोकने ॥ ५२ ॥ अनाश्वासे विस्मये च विषादेनीप्सिते तथा । प्रतिषेधे च तस्योक्तः प्रयोगो भरतादिभिः ।। ५३ ॥ इति धुतम् (१)
(सु० ) तत्र प्रथमोद्दिष्टशिरोभेदानाह - धुतमिति । धुतम, विधुतम्, आधूतम्, अवधूतम्, कम्पितम्, आकम्पितम्, उद्वाहितम्, परिवाहितम्, अञ्चितम् निहञ्चितम् परावृत्तम्, उत्क्षिप्तम्, अधोमुखम्, लोलितमिति चतुर्दशविधं शिरः । अपरे तिर्यङ्नतोन्नतम्, स्कन्धानतम् आरात्रिकम्, समम्, पार्श्वाभिमुखमित्यन्यान् पञ्च भेदानादुः ॥ ४९-५१॥
,
"C
(क०) यथोद्देशं लक्षणानि सविनियोगमाह - पर्यायेण शनैरित्यादि । संज्ञावाहनयोरपीत्यत्र संज्ञेति गूढार्थसूचिका चेष्टा संज्ञोच्यते । एवं संज्ञोपदेशयोरित्यादावपि द्रष्टव्यम् । वल्लभानुकृताविति । लीलायामित्यर्थः । प्रियानुकरणं लीला" इत्युक्तत्वात् । हनुधारण इति । रुक्चिन्तादिविषयं यद्धस्तेन हनुधारणं तस्मिन् अञ्चितं शिरः कार्यमित्यर्थः । सर्वदिकैरिति । स्वरूपतो भिन्नानामपि शिरोभेदानां यत्र येषु केषु - चिदर्थेषु विनियोगसाम्यं दृश्यते ; तत्र विकल्पविज्ञानादेकेनोचितेन प्रयोगः कर्तव्यः ॥ ५२-७७ ॥
इति भरतोक्तं चतुर्दशविधं शिरः ।
(सु०) तत्र धुतं लक्षयति--पर्यायेणेति । क्रमेण वामदक्षिणयोः शनैः तिर्यक् नम्रीभूतं शिरः धुतमित्युच्यते । तस्य विनियोगमाह - शून्येति । विजनस्थाने
Scanned by Gitarth Ganga Research Institute